पृष्ठम्:हस्त्यायुर्वेदः.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति श्रीपालकाप्पे हस्त्यावे.महाप्रवचन उत्तरस्थान इक्षुदानविधि अथ त्रयोदशोऽध्यायः । अत उध्वं नस्यकर्मविधिं व्याख्यास्यामः । अथ खलु प्रवरमध्यमावराणां नागानां सुसरोवृष्टिसिक्तसलिलभूमिभागामगरु धूपितां पुण्याहघोषेण निष्कल्मषीकृतां मनोज्ञां शालां भिषग्यथोपदिष्टमला यत्रमुपकल्प्य सुमतिविहितपरिचारकस्य जघननिषण्णस्योर्धर्वग्रीवस्योध्र्वतोहस्तं कृत्वाऽवसेचयेदशिथिलमनतिबद्धमतिपीडितमवलीकमूध्वैधारयित्वाऽर्गलायत्रे विषाणयोर्नियमनं कृत्वा ततः सुप्रतिष्ठितकायं वारणं स्रापयित्वा भिषङ्कर्मशा लामधिरुह्य हस्तिहस्तश्रो(स्रो)तसि दक्षिणं पूर्वमभिषिच्य वस्रमयं मुडुकं शेषत प्रमाणं त्रावनद्धं निर्गमयन्तं निर्वाहणार्थं पयसो ” “ निधाय पाणिना च पीडयेदेकेनोद्वासयेत्, एकेन पादातिकायां क्षामणक्रियां कुर्यात्, दत्तमात्रे वास्य पयसि मुखप्रदेशं तालुभागं जिह्वां च गुडदिग्धेन पाणिना संस्पृशेत् । केवलांश्चास्य पाणितलेनोपहरेत् । इक्षुविषमृणालशृङ्गाटककसेरुकाणामन्यतमं यवसोपगूढं दद्यात् । ग्रहकारणे वाऽस्य निग्रहं कुर्यात् । ततः क्षीरं शर्करा मधुरं कृत्वा हस्वोरसोर्निदध्यात् । न चास्य कवलान्प्रसक्तान्दद्यात् । ऊध्र्व ग्रीवस्याधिकबलत्वं संपद्यते । तस्मादमसितं नागं कवलैः संप्रयोजयेत् । एव हि कवलान्भक्षयतः क्षीरमन्तः प्रपद्यते । यदा त्वेवं क्षमितः क्षीरमवि संवमु(?)मनुहरति, तदाऽस्य यथाक्रमेण विहितं नस्यं श्रुद्धिमुपजनयति । तत पूर्वमिव नस्तः प्रधमनं पिप्पलीमरिचनागरपृथ्वीकाविडङ्गश्चेतसर्षपसैन्धवतग राणां द्रोणं पञ्चपलिकं प्रमाणमेकैकस्यौषधस्य सूक्ष्मचूर्ण प्रधभर्न दद्यात् । पश्वपलिकमात्रं प्रधमनं प्रचूर्ण धमनवर्ग तदेव सुरसफणिजकपत्ररसं सुखोदकयु क्तमल्पन्नेहं विरेचनं दद्यात् । तदेव पूर्वोक्तं . पिप्पल्याद्यष्टद्रव्यं प्रधमनव गैम्. । अथवा पिप्पलीमरिचशृङ्गवेरचन्दनागुरुसर्जरसश्रीवेषकगुग्गुलु प्वामलकपरिपेलवशैलेपकजटामांसीकालानुसार्याणां पलप्रमाणं द्रोणं कृत्वा यथोक्रेन धूपविधानेन हस्तं वासयित्वा धूपं दद्यात् । यदा कटश्रोतयोः षट्क लमष्ठकलं वा प्रसक्तमेतेन प्रमाणेन कर्णयोधूपप्रसक्तमुपगच्छति तदूपमात्रां १ क, “सो मध्ये नि° । २ क.ख. ततोऽस्य । ३ क. पूर्वमेव ।