पृष्ठम्:हस्त्यायुर्वेदः.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११. .सत्रीर्यविपाकाध्यायः] इस्त्यायुर्वेदः । यथार्ह गुणयुतेषु कारयेद्योगहस्तिषु । मतिमोका विधातव्या यथाशास्रमाणतः ॥ ६४ ॥ मधूच्छिष्टं च लाक्षां च सह सर्जरसेन च ॥ तेन काथेन नागेभ्यः प्रतिमोकांश्च बन्धयेत् ।। मैत्रे मुहूर्ते कर्तव्यः प्रशस्तेऽहनि पूजितैः ॥ ६५ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदे महापवचने चतुर्थ उत्तरस्थाने दशमो दन्तकल्पनाध्यायः ॥ १० ॥ अथैकादशोऽध्यायः । अथ रसवीर्यविपाकाध्यायः । -- :():- रोमपादो महातेजाश्वम्पाया ईश्वरः स्मृतः ॥ पप्रच्छ स महात्मानं पालकाप्पं तपोधनम् ॥ १ ॥ रसाः कति समाख्याताः किं वीपं किं गुणो भवेत् ॥ विपाकश्च महाभाग एतदिच्छामि वेदितुम् ॥ २ ॥ के च सौम्या रसा ज्ञेयाः के चाज्ञेयाः प्रकीर्तिताः ।। के च वा सेव्यमाना(व) शर्मयन्ति रसा गुणैः ॥ ३ ॥ के पित्तं शमयेयुश्च श्लेष्माणं शमयन्ति के ॥ उदीरयन्ति के चातं श्रेष्माणं पित्तमेव च ॥ ४ ॥ अरोगो बलवांश्चापि रसैः कैर्वारणो भवेत् । स्थिरत्वं जायते केन क्षारत्वं केन जायते ॥ ५ ॥ एतन्मे पृच्छतः सर्व भगवन्वकुमर्हसि ॥ तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ।। ६ ॥ शृणु मे सर्वमेवैतद्यथां प्रोक्तं नराधिप ॥ निश्चयादेक एवाऽऽह गौतमे(म) ऋषिसत्तमः ॥ ७ ॥ पस्मादम्बुमयं सर्वं जगत्स्थावरजङ्गमम् । ॥ ८ ॥ आङ्गो हि राजा चम्पायां•पालकाप्यं स्म पृच्छति । इक्षुदानं च नागानां श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥ .' रसवीर्यविपाकाध्याये त्रुटितं प्रतिभाति ।