पृष्ठम्:हस्त्यायुर्वेदः.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कपोलपायुमन्यासु शोफः सोऽपि न जीव:ि ॥ समाभीको मेहनस्तुं यस्य सू(च)पतिं लोहितः ॥ ३४ ॥ उरवाँसैौ च सहसा विगत्य प्रतिपद्यते । सगदे च यदा प्राप्तः स शोफस्तस्य दन्तिनः ॥ ३५ ॥ तदा तेन सशोफेन मासृदूध्वं न जीवति ॥ क्षीणशोणितमांसस्य श्रूयेते यस्य हस्तिनः ॥ ३६ ॥ अष्ठीब्यौ सहसा यस्य मासादूध्वं न जीवति ॥ मभ्ययोर्यस्य लक्षेत (लक्ष्पेत) श्वयथुर्जलचश्चलः ॥ ३७ ॥ दौर्मनस्यं च सहसा सोऽष्टरात्रं न जीवति ॥ शब्दं यूश्च न जानाति ताठितं नावबुध्यते ॥ ७८ ॥ न च वेदयते गन्धं न स जीवति तादृशः ॥ अकस्माद्यो भवेच्छूनः कृशोऽकस्माच जायते ॥ ३९ ॥ प्रकृतिश्चातिवर्तेत स सप्ताहं न जीवति ॥ एवमेतान्यरिष्टानि व्याख्यातानि यथायथम् ॥ ४० ॥ नागेषु च मनुष्येषु सदृशं मृगपक्षिषु । प्रतिकर्मसु जानीयादेवं सर्वचिकित्सितम् ॥ ४१ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वे महाप्रवचने चतुर्थ उत्तरस्थानेऽरिष्टज्ञान कथनं नाम नवमोऽध्यायः ॥ ९ ॥ अथ दशमोऽध्यायः । [ ४ उत्तरस्थाने अथाङ्गाधिपतिः श्रीमास्रोमपादो महाद्युतिः । पप्रच्छ पालकाप्यं हि गजानां दन्तकल्पनाम् ॥ १ ॥ दुर्जातानि विषाणानि दीर्धाणि विषमाणि तु ॥ कपाटद्वारपरिघप्राकारहरणादिभिः ॥ २ ॥ भज्यन्ते वाऽथ शर्पन्जे मुञ्चन्ति सकलानि च ॥ रक्षणं तेषु निखिलं भगवन्वक्तुमर्हसि ॥ ३ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । । विधिं शृणु महाराज मम सम्यक्मभाषतः ॥ ४ ॥ १ क. "स्थानेऽरिष्टज्ञानं समाप्तम् । ख, स्थानऽरिष्टज्ञानं संपूर्णम् । • • • • • • • • --------------------------