पृष्ठम्:हस्त्यायुर्वेदः.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ अरैिष्टज्ञानाध्यायः ] हस्त्वयुर्वेदः । कटै मुखं व नेत्रे च यस्यौभद्वति दन्तिनः ॥ न च र स्रवेचैवं न स जीवंतं तादृशः ॥ १९ ॥ अनाहारस्तु यो नागः पुरीषं बहु वीत्सृजेत् ॥ सोऽपि मेतसमो यो न स जीवति वारणः) ॥ २० ॥ म्लानाक्षस्य नखा यस्य इयामतां यान्ति दन्तिनं: ॥ न स जीवति मातङ्गत्रिरात्रमिति मे मतिः ॥ २१ ॥ हस्तिनेो यस्य लक्ष्येत पुण्डरीकपलाशवत् ॥ अग्रहस्तः प्रभाहीनो न स जीवति कुञ्जरः ॥ २२ ॥ निवणादागतो नागो जघने लग्रमक्षिकः ॥ संनिषीदति गात्रैश्च च्छिद्रष्टा(च्छा)यो न जीवति ॥ २३ ॥ प्रत्यक्षाति च यो घासमुदकं चातिसार्यते ॥ प्रवाहमानो दुर्गन्धं न स जीवति तादृशः ॥ २४ ॥ (*शालाया यस्य निष्क्रान्ता() बहिश्छायोपलक्ष्यते ॥ विशिरस्का स मातङ्गः सद्य एव विनश्यति ॥ २५ ॥ हरतः सलिलं यस्य घृतगन्धि प्रवाति तत् । बस्तिसयनेपि(?)वासोऽपि त्रिरात्रं नाति वर्तते ॥ २६ ॥ इरितालसवणं तु ज्ञघनं यस्य हस्तिन ॥ पीतकश्च करो यस्य न स जीवति तादृशः ) ॥ २७ ॥ समन्तात्परिलीयन्ते कृष्णा यस्य तु मक्षिकाः ॥ शरीरे चातिलीयन्ते न स जीवति तादृशः ॥ २८ ॥ . वस्य तद्विगुणा छाया वारणस्योपलक्ष्यते । नै स जीवति मातङ्गः षड्रात्र इति निश्चितः ॥ २९ ॥ यस्य निर्गच्छतः स्थानाद्याधितस्येह दन्तिनः ॥ ब्रूयात्तिष्ठति पुरतः क्षुतं च स्यात्तदग्रतः ॥ ३० ॥ शकुनो वा भवेत्तादृङ्कमृवं तु तमिहाऽऽदिशेत् ॥ कडंगरं तृणं वाऽपि पञ्चान्यन्नागभोजनम् ॥ ३१ ॥ ग्रसित्वा सद्वमत्याश् न स जीवति तादृशः ।। एकाङ्गं वर्धते यस्य न च खादितुमिच्छति ॥ ३२ ॥ स्थाने स्तम्भबलौ पः स्याम स जीवति तादृशः ॥ उत्पद्य च विनिर्गच्छेद्यो गत्वा पुनरेति च ॥ ३३ ॥

  • धनुबिहान्तरगतो नास्ति पाठः कपुस्तके ।