पृष्ठम्:हस्त्यायुर्वेदः.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाला उपर्युपरि गच्छन्ति धहुशः स न जीवति ॥ यस्याग्रहस्ते श्वयथुः पुष्करं नोपसेवते ॥ ५ ॥ वालु मन्ये गले चैव सोऽपि नागो न जीवति ॥ यस्यैकगात्रं हस्तश्च धृपते म्लापते तथा ॥ ६ ॥ गच्छञ्च रक्त स्रोतोभ्यो न स जीवति तादृशः ॥ यो नागः स्रस्तहस्तः स्पादुकुलिश्चापि वेपते ॥ ७ ॥ अधः कायस्य यश्चापि न स जीवति वारणः ॥ वाणो जलमास्येन हस्तेनापि न रोचति (ते) ॥ ८ ॥ पीत्वा वमति भूयश्च न स जीवति ( तादृशः ।। गच्छतस्तिष्ठतश्चापि यस्य गच्छति शोणितम् ॥ ९ ॥ करकणस्यमेद्रेभ्यो दशाहं स न जीवति ॥ ) यस्यैकगात्रं शूनस्य स्वनत्येव नखैः क्षितिम् ॥ १० ॥ वेदनार्तश्च भवति न स जीवति तादृशः ॥ पन्ते यस्य गात्राणि वलनं नैव दृश्यते ॥ ११ ॥ शिरोग्रीवामणिर्यस्य नृम्भमाणो न जीवति ॥ हस्वमूत्रपुरीषश्च स्वल्पाहारो न जीवति ॥ १२ ॥ स्पष्टानि पस्प रोमाणि निपतन्ति महीतले ॥ करकर्णास्पवालेभ्यो दशाहं सोऽपि जीवति ॥ १३ ॥ गजः कुणपगन्धियों वाति वातानुसारतः ॥ परमोदनकाङ्क्षी च न स जीवति कुंजरः ॥ १४ ॥ विरिक्तो यदि वैद्येन स्वयं चाप्यतिसारतः ॥ पुनराध्मायते यस्तु यथा प्रेतस्तथैव च ॥ १५ ॥ इयामोष्ठश्च विवर्णदृक् श्यामतालुकमेहनः ॥ दुर्गन्धो विस्रगन्धिश्च त्रिरात्रं न स जीवति ॥ १६ ॥ गजो विशिष्टदृष्टिये भवेत्संलुलितेक्षणः॥ (गजः संक्षुषकवदनो न स जीवति तादृशः ॥ १७ ॥ ऊध्वं तिर्यगधचैव भीतान्पो मतङ्गजः ॥ विलोकयति सर्वत्र न स जीवति तादृशः ॥ १८ ॥ धनुश्चिान्तरगतो नाति पाठः कपुस्तके ॥ { धमुबिहान्तरगतो नाति पाठः कपुस्तके । १ ख. ध. शून्यस्य । २ ख. सूयते । घ. शूयते ।