पृष्ठम्:हस्त्यायुर्वेदः.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ अरिष्टज्ञानाध्यायः ] इस्ख्यायुर्वेदः । पुरुषं वरसोमं च तथैव चारुपत्रिकाम् ।। सृतं च बिल्वजाथैव चिकिर्णी:रक्तकुण्डेकम् ॥ ३३ ॥ कक्षाणि मधुराण्याहुर्विपाके कटुकानि च । वातकोपनि भूयिष्ठं श्लेष्मपित्तहराणि च ॥ ३४ ॥ एतज्जाङ्गलमुद्दिष्टं तृणजातमसंशयम् ॥

  • आनूपजं प्रवक्ष्यामि रसदौषविपाकैतः ॥ ३५ ॥

श्यामाकं जूर्णपादं च शिल्पिकं कारभीतृणम् ॥ तिलपण मञ्जरिका महामृदुलिका तथा ॥ ३६ ॥ महाश्यामाकमेवाथ तथैव शकटातृणम् ॥ प्रशान्तिका मञ्जरिका इक्षुपर्णी नलस्तथा ॥ ३७ ॥ श्लक्ष्णाकरपरा चैव तथा परुषपत्रिका ॥ * पिठकारालगुडकं कलायं शतपत्रिका ॥ ३८ ॥ मृतवीरकपत्री च तथा मेषविषाणिका ।। गुच्छं नृणं श्लक्ष्णगुच्छं तथा चैवेक्षुचालिका ।। २९ ॥ कदलीमिक्षुरेरण्डनारिकेलं नलस्तथा ।। स्वर्तृरीपिण्डेकं चैव ॥ ४० ॥ अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति । अरिष्टानि गजेन्द्राणां भगवन्वतुमर्हसि ॥ १ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्पस्ततोऽब्रवीत् ॥ ‘अरिष्टानि महाराज शृणु वक्ष्यामि यानि ते ॥ २ ॥ येषामालोकनान्मृत्यु भिषग्जानाति दन्तिनाम् । दृढं पस्य विपद्येत गजस्यौषधिभाजनम् ॥ ३ ॥ न तस्मै क्रियते कृत्यमिति वृद्धानुशासनम् ।। क्रव्यादा यस्य विहगा व्याधितस्येह दन्तिनः ॥ ४ ॥

  • ‘अनूपजं’ इति स्यात् । ' इत उत्तरम् किंचित्रुटितमस्ति’ इति खपुस्तके

लिखितमुपलभ्यते । १ क. Pण्डलम् । २ क, "कजम् ॥ ३१ ॥ ३ क. "हामञ्जरिका । ४ ख. ध. मृ“वीरक° । ५ ख. ध. "रेरं च ना” । ६ क.०ण्डकी चै°। ७ क.*वदेया वै दन्तिनां सदा ।