पृष्ठम्:हस्त्यायुर्वेदः.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस्पायुर्वेदः । वर्षासु स्थलजं देयं जलजं च विवर्जयेत् ।। हेमन्ते जाङ्गलं भूयः स्थलजं च महीपते ॥ ६ ॥ वसन्ते तु तृणं दद्यात्कषायकटुकं रसे ।। ग्रीष्मे तृणं शेषभाद्रं दापयेच गुडोदकम् ॥ ७ ॥ कुरुमाषमोदकं चैव सानुपानं प्रदापयेत् ॥ प्रावृट्काले महाराज दापयेत्पिष्टमोदकम् ॥ ८ ॥ छविरोमप्रसादार्थ पञ्चमेऽहनि दापयेत् ।। अनूपजानि शरदि मदद्याच्छाडूवलानि वै ॥ ९ ॥ हेमन्ते स्थलज दद्यात्प्रसन्नां चांचिरांस्थिताम् । प्रदद्याद्यवसान्येव बुद्धिमाञ्शास्रनिश्चयात् ॥ १० ॥ ऋतुष्वेवं महीपाल योगसात्म्यैरदन्तिनम् । ओषध्यः फलपाकान्तास्तासां सर्वगतो रसः ॥ ११ ॥ भवत्यजातवीर्याणामम्लः श्रेष्मविवर्धनः ॥ अजातकाण्डं तरुणं पत्रलं शस्यमुच्यते ॥ १२ ॥ श्रावणे तु तृणं मासे भाद्रपदे जातपर्वकम् ॥ ईषन्मधुरभम्लं च जायते प्राणवर्धनम् ॥ १३ ॥ गर्भमाश्वयुजे मासे सगर्भ मधुरं भवेत् । विमुक्तमम्लभावेन जायते मांसवर्धनम् ॥ १४ ॥ कार्तिके तु तृणं मासे जातवीर्यरसं भवेत् ॥ मांसशोणितमज्जानां बृहणं प्राणवर्धनम् ॥ १५ ॥ मार्गशीर्षे तृणं राजन्व्पत्तं परिणतं दृढम् ॥ 'शुक्रवृद्धिकरं राजञ्जायते प्राणवर्धनम् ॥ १६ ॥ परिशुष्कापत्रं च *शीर्ष पुष्पं फलं तथा ॥ पौषमासे तूर्ण विद्यान्नागानां भेदसो हितम् ॥ १७ ॥ तुषारपाताभिहतं सूर्येष्मोपहतं भवेत् ॥ माघमासे तृणं प्रायः संशुष्कमुपर्जायते.॥ १८ ॥ . तृणमल्परसं चापि न वा माणविवर्धनम् ॥ कविदा कचिच्छुष्कं फाल्गुने मासि जायते ॥ १९ ॥

  • ‘शीर्षपुष्पफलं' इति भवेत् ।

१ ख. घ. चारि० । ६२१