पृष्ठम्:हस्त्यायुर्वेदः.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततः प्रोवाच भगवान्पालकाप्यः शृणु राजन्स्थानविधिमुपदिश्यमानमशे षनागानाम् । तत्र शिवे रम्ये बहुद्दमे भूमिभागे.नातिदूरं नगरस्य स्थानं ग्रामं समाक्षितस्य(१) प्रागुत्तरस्यां दिशि चैत्पश्मशानदेवतायतनयक्षपिशाचराक्षस भूतापतनानि दूरतः परिहृत्य कृष्णवेतरक्तपीतपाण्डूनां मूमिवर्णानामन्यतमेन वर्षेनोपपन्नां भूमिं ज्ञात्वा सुन्निग्धभूमिभागे घ(शालां वारणस्योपकल्पयेत् । हस्तदिष्याश्धपुक्विन्नाश्रवणानामन्यतमे नक्षत्रे, दशम्येकादशीद्वितीपातृ तीपासप्तमीनामन्यतमे दिवसे, सावित्रबालाभिजितामैत्रराक्षसभूतानामन्यतमे मुहूर्ते, शान्ति कृत्वा ततोऽक्षतोदकपूर्णकलशैः सचन्दनैः शोक्ष्य भूमिभागं हुन्वाऽन्नेि ब्राह्मणांस्तर्पयित्वाऽत्रैश्च दक्षिणाभिश्च ततः पुण्याहघोषेण तां समां शालां मापपेत् । त्रिविधस्तु विस्तारः शालानामेष्टव्यो भवति यथाहस्तिप्रमाणेन। तत्रोत्तमस्य चतुर्विंशत्यर्रान्निविस्तारा, मध्यमस्य द्वाविंशत्यविविस्तारा, जघन्यस्य विंशत्प रांत्निविस्तारा। द्विगुणापतां प्राग्द्वारामुदग्द्रारां वा प्रकल्पयेच्छालाम् । तत्र षट्किष्कूत्सेधहस्तद्वयं किष्कूत्सेधां ज्येष्ठस्य, पञ्चकिष्कूत्सेधां मध्यमस्य, द्वेचतुःकिष्कूत्सेधां जघन्यस्य । विस्तरार्धमात्रः प्राग्जीवः कर्तव्यः । तत शालशाकतिनसार्जुनानामन्यतमेन द्रव्येण सारवन्तमग्रन्थिकोटरममाद्वव(?)मुत क्षितमृतुं वृत्तं स्तम्भमनवबाधकरं हस्तिनां सगदोरसान्तं चतुरो हस्तानियान पेत्। सुपरिगृहीले शकुभिश्चतुरस्तात्पार्वतश्चाऽऽदशहस्ताऽनुत्सेधमस्य कुर्यात्। षट्पञ्चाशदङ्गुलपरिणाहमुत्तमस्य, चतुर्दशाङ्गलपरिणाहं मध्यमस्य, द्वादशा ङ्गलहीनं जघन्पस्प । तस्याऽऽसनस्योपरि हस्तमात्रे गोस्तनं कारयेत्। अथास्य स्तम्भमूलेष्वलिंष्टं पश्चात्प्रवणं मुश्लिष्टकरंकावेधनं (?) कुर्यात् । किंचिन्मध्ये निम्रोन्नतसंपुरस्ताद्दिहस्तमात्रं हस्त(स्ति)विश्रामणार्थं कपिशीर्ष कुर्यात् । अवङ्कष्टं च पृष्ठतोऽग्रयोमनं कर्तव्यम् । पदपर्यन्तश्च हस्तिशालायां सर्वतोर्धको ष्ठकः कार्यः सलिप्तो मृत्तिकया । ज्याभाग(गं)पूर्वेणोत्तरेण वा कुर्याद्यथाहस्ति प्रमाणं किंचिन्मध्यभागे निम्रोमतं पार्थेषु मृदुनं सूक्ष्मेण च पांशुनाऽवकीर्ण म् । एवं द्वौ हस्तिनः स्थाने स्तम्भौ शय्याभौगौ च विभज्य कारयेतत् । ग्रीष्यकाले रात्रौ पुनरागतं कण्टकैमुपनेये(नयेत्) मवातार्थम् । पुवं (एवं) दिवसङ्गा(कान्तो वारणः सुखमाप्नोति । तानेवोदितसूर्ये कटकान्बन्धयेत् कछाड्नार्थे(त) येन पार्श्वनातपस्यागमः । शेषाणि पाश्र्वाणि विवृतानि कुंय त्मवातार्थम् । मातरेवोपलेपयेच्छालाम्। निवृत्तस्य चास्य प्रवरामविष्टस्य मुहु ८