पृष्ठम्:हस्त्यायुर्वेदः.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कफान्तं वातपित्तान्तं कुक्षिशैथिल्यलाघवम् ॥ गात्रापरमृदुत्वं च व्याधेरपि विनिग्रहः ॥ ४२ ॥ लक्षणं तु निरूढस्य मूत्रशुद्धिकृदेव च ॥ लक्षणं दुर्निरूंढस्य आनाहो रक्तमूत्रता ॥ ४३ ॥ विङ्घातनिग्रहं शूलमाध्मानं व्याधिवर्धनम् । निष्पुरीषस्य नागस्य निरुढस्यातियोगतः ॥ ४४ ॥ वायुर्गात्राणि कुक्षिं च शूलेनाऽऽवेष्टयेदृशम् ॥ तस्मान्निरुहयेत्सम्पक्सिद्धिकामो विचक्षणः ॥ १४५ ।। अपकर्षति वासेभ्यः क्षारः सर्वे यथामलम् ॥ अपकर्षति दोषान्दै आस्थापनमनेकधा ॥ ४६ ॥ बल्पं वृष्यं बृहणीयमिन्द्रियाणां प्रसादनम् । जीवकृज्जीवनं मेध्यं गजस्पाऽऽस्थापनं मतम् ॥ ४७ ॥ क्षुत्पीडितो मदाविष्टो बालो वृद्धो गदातुरः ।. स्रातः पीतोदकश्चैव भुक्तवांस्तृषितश्च यः ॥ ४८ ॥ वितृष्णो जीर्णभक्तश्च दुर्मना यश्च वारणः ।। भीरुचैवाप्यनास्थाप्यः श्वासी यश्च मतङ्गजः ॥ ४९ ॥ एतेषामनुपूर्वेण शास्त्रमार्गानुसारिणा । चिकित्सकेन क्षीरेण देयाः स्युः क्षीरबस्तयः ॥ १५० ।। मात्रा बस्तेर्विधिरतः क्षीरबस्तिश्च वक्ष्यते ॥ अशनादुत्तरं पितो यथा स्नेहोऽभियोगतः ॥ ५१ ॥ पूर्वकापस्य विहितः खेहिनः शास्रदर्शनैः । स्रहनः सर्वतस्तद्वद्विज्ञेयो दोषनाशनः ॥ ५२ ॥ अनन्ययोगजानां तु मात्रा बस्तिः प्रशस्यते ॥ क्षीणधातुकृशा नागा वृद्धाः क्षीणबलाश्च ये ॥ ५३ ॥ पश्चात्सूपहताश्चापि मदक्षीणास्तथैव च । एषामप्रेर्विवृद्धयर्थ ग्रीष्मे प्रावृषि वा हितः ॥ ५४ ॥ द्वेपः प्रायोगिको बस्तिर्विशेषेण तु दन्तिनः । पूर्वाङ्गे स्रातपीताय भुक्ता च विधानतः ॥ १५ ॥ रसायनं परं नित्यं पूर्वोक्तविधियोजितम् ॥ अतः परं प्रवक्ष्यामि क्षीरबस्तिविधिं शुभम् ॥ ५६ ॥ ६०३