पृष्ठम्:हस्त्यायुर्वेदः.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आस्थापनं तु वक्ष्यामि शृणु चैतभाधिप । अनुवासेनमाधाया द्विगुणा तस्य शस्यते ॥ १३ ।। न च भुक्तवते देया मातङ्गाग्र पुनः पुनः ॥ १४ ॥ अनुबन्धान्निरूहस्य धदानं बाधते द्विपम् ॥ एकं द्वितीयमेवं च तृतीयमपि योजयेत् ॥ ११५ ॥ यावद्वा साधु मन्येत समीक्ष्य गुरुलाघवम् ।। वयो व्याधिमृतुं देशं सात्म्यकालौ बलाबलम् ॥ १६ ॥ सत्त्वं वाऽपि परीक्ष्ये(क्षे)त जातिं च मतिमान्भिषक् ॥ तस्या वर्तनकालस्तु मुहूर्त मसमीक्ष्यते ॥ १७ ॥ भित्त्वा पुरीषसंघातं दोषमादाय चोल्बणम् ।। तीक्ष्णोष्णन्नेहलवणैरन्वितस्तु विशेषतः ।। १८ ।। पूर्वे मध्योऽवकृष्टस्तु जघन्यो मधुरः स्मृतः ॥ अत्युष्णो नातितीक्ष्णश्च लवणश्च विशां पते ।। १९ ।। अकृत्वैव निवर्तेत कृतो मात्राधिकश्च यः । समुत्छेदनकर्मा हि प्रथमः परिकीत्र्यते ।। १२० ॥ मध्यमो दोषहरणो जघन्यस्तु प्रसादनः ॥ संद्योनुवासनं केचित्केचिदास्थापनं पुनः ॥ २१ ॥ ऋषयः संव्यवस्यन्ति पूर्व गुणसमीक्षया ।। आस्थापननिरस्ये तु पुरीषे निर्मले गुदे ।। २२ ।। अनुवास्य इति प्राहुर्हन्तुं चैवात्र मे शृणु ॥ पुरीषविहिते मार्गे योऽनुवासं प्रयच्छति ॥ २३ ॥ न तस्य साधकः स्रहो भस्मनीवाऽऽहुतिहुंता ॥ आस्थापनहृतो दोषः:शुद्धकोष्ठस्य दन्तिनः ॥ २४ ॥ बस्तिमो न भवति शुद्धो व्पोन्नि यथा शशी । अनुवासोपपन्नाय निरूहं यः प्रयच्छति ।। १२५ ॥ तृतो विरूक्ष्यते तज्ज्ञेः स्रहस्तस्य न साधकः ॥ स्नेहस्वेदोपपन्नाय पुरीषे संश्रिते तथा ॥ २६ ॥ यथावन्मलदोषाणां छेदभावाः शुभावहाः । अनुवासनमेव स्यादास्थापनमतः परम् ॥ २७ ॥