पृष्ठम्:हस्त्यायुर्वेदः.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वमेवानुछद्ध्वा तु नेत्रयस्ति माहिताम् ॥ ८३ ॥ कदुष्णं स्रोहमासिच्य निर्वातमुपसंहरेत् ॥ नलेन दक्षिणेनास्य गुदस्य द्वारभर्पयेत् ॥ ८५ ॥ मूले प्रबद्धे नेत्रस्य निश्छिद्रेण च चर्मणा ॥ वामेन प्रतिग्रहीयान्नेत्रमध्यं समाहितम् ॥ ८६ ॥ तदूध्र्वमुखमुत्क्षिप्य गजायोपहरेद्विषक् । तदाऽऽयत्रेहसंयुकं स्रहाभ्यक्तगुदस्य च ॥ ८७ ॥ प्रणिदध्यात्स्वयं वैद्यो गुदे नेत्रं समाहितम् ॥ अनुवंशं यथा मायुबस्तेश्चाबन्धनाद्रिषक् ॥ ८ ॥ समाहितसर्वाङ्गः शनैर्वेद्यः प्रवेशपेत् ॥ नास्युन्नतं न च नतं कदाचिदिह पूज्यते ॥ ८९ ॥ न च तिर्यग्गतं नेत्रं नाप्यूध्वं नाप्यधोमुखम् ॥ कथंचित्मणपेद्धीरः सकृचैव प्रदापयेत् ॥ ९० ॥ ततो निष्क्रम्यते नेत्रं शेषमेवमपाहरत् ॥ ततो वाक्शतमात्रं तु दत्ते तिष्ठदतन्द्रितः ॥ ९१ ॥ अत ऊध्वं भिषङ्नागं पदानां गमयेच्छतम् ॥ शनैरत्रासयञ्शस्तैर्वाग्भिश्च परिशंसयेत् ॥ ९२ ॥ मनः प्रहलादयेत्तस्य विषयैः कालयोगिभिः ॥ पाणिना लम्बनेनैव वंशावीणास्वनेन वा ॥ ९३ ॥ दक्षास्तं गीतघोषैश्च रमयेयुरनेकपम् ॥ 'यान्यान्क्रमयते भावांस्तांस्तांस्तस्य समाचरेत् ॥ ९४ ॥ न तस्य मनसः किश्विद्याघातमुपकल्पयेत् ।। ततः मत्यानयेत्स्थाने स्थितः सुमनाः मुखी ॥ ९५ ॥ स्थितस्यैव समाकाङ्क्षेद्धस्तेः प्रतिनिवर्तनम् ।। स्विमायोष्णाम्बुना पूर्व हेमन्ते जलदामे ॥ ९६ ॥ आसुताय जलं शीतं दद्याद्वै ग्रीष्म एव च ॥ शीत एवावगाहो वा शीतसात्म्यतया भवेत् ॥ ९७ ॥ ‘कल्यमेनं तु बुध्येत पूर्वं निमित्तकं बुधः ॥ उचिताभोजनादैर्घ वतो भुक्तवतो लघु ॥ ९८ ॥ १ क, ख. ध. ०रसर्प० । २ क. १दर्थे तथ् ।