पृष्ठम्:हस्त्यायुर्वेदः.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१-द्वित्रणीयाध्यायः ] हस्त्यायुर्वेदः । पटोली कोकजद्धी च द्रवन्ती कृतवेधना ॥ हरिद्रा निम्बपत्राणि तथा कटुकरोहिणी ॥६॥ अजैशृङ्गश्यश्वपत्राणि शृतातं कल्कशोधनम् । तृ(त्रि)वृता शृङ्गवेरं च त्रुह्यर्कक्षीरमेव च ॥ ७ ॥ तेजोवती लाङ्गलकी कुष्ठं.हिंस्रा च चित्रकः । रजनी सैन्धवं चैव तथा कटुकरोहिणी ॥ ८ ॥ पिप्पलीमूलनिर्गुहैः शुद्धं सर्पिर्विशोधनम् ॥ बृहती कटुका रोझै कोशातक्याः फलानि च ॥ ९ ॥ मदनं त्रपुसी काला सर्षपा रजनी तथा ।। पिप्पल्यश्चाश्वगन्धा च पूर्वा पोतांऽथ चित्रकः ।। २१० ॥ दुष्टानामरुजामेततैलं शोधनमिष्यते ॥ त्रिफलातगरोशीरं हरिद्रा तालपत्रिका ॥ ११ ॥ मुस्ता दारुहरिद्रा च (*कपसीपत्रमेव च ) ॥ तथैव दन्त्याः पत्राणि मुमनःकरवीरयोः ।। १२ ॥ एतत्कालायसे पात्रे सम्पक्काथधिश्रयेत् ।। कोसीसं मधु गोमूत्रं मरिचं चात्र दापयेत् ॥ १३ ॥ मुसिद्धा तु भवेत्कार्या शोधनीपा रसक्रिया ॥ एरण्डपत्रं लवणं तिलास्तृ(त्रि)वृतया सह ॥ १४ ॥ (*शोधनं वातदुष्टषु व्रणेष्वेतद्विधीयते ॥ हरिद्रा मधुकं चैव तिलास्तृ(त्रि)वृतया सह) ॥ २१५ शोधनं पित्तदुष्टषु रक्तजेषु प्रशस्यते ॥ सैन्धवं च हरिद्रे द्वे तिलास्तृ(स्त्रिवृतया सह ॥ १६ ॥ मधुकं निम्बपत्राणि श्रेष्मदुष्टषु शोधनम् ॥ हरितालं च किण्वं च स्वर्जिकाऽथ मनःशिला ॥ १७ ॥ रसाञ्जनं च दन्ती च निकुम्भाऽतिविषा तथा । तथैरावणिकामूलं लाङ्गलिक्याश्च चूर्णयेत् ॥ १८ ॥

  • कपुस्तके त्रुटितम् ।

१ क. काकजङ्चा । २ क. ०जमग्यश्च० । ३ क, "ता च चि० । ४ क .

  • मवश्र" । ९ क. काशीसं । ६ क. च सजि° ।