पृष्ठम्:हस्त्यायुर्वेदः.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. बतिदानाध्यायः ] हस्स्यायुर्वेदः । नरधिश्रयेत् । एवं सहस्रपाकमुत्तमम्, शतपाकं मध्यमम्, अवरं दशपाकम्, त्रितं साधपेदिति । तत्र शोक एवं मया स्रोहविधिः प्रकल्पितः प्रमाणविद्भिर्विहितो यथार्थतः । यथाविकारं च यथार्थतः क्रियां,गजेषु कुर्याद्विषजां वरस्तथा ॥ इति । इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने श्रीपाठे चतुर्थ उत्तरस्थाने स्रोहविधिकथनं नाम चतुर्थोऽध्यायः ॥ ४ ॥ ऋषिं प्रक्षविदां श्रेष्ठमादित्यसमतेजसम् ।। अङ्गराजो महाबुद्धिः पालकाप्यं महौजसम् ॥ १ ॥ मुखोपविष्टं वरदं कृतजप्यं कृताञ्जलिम् ॥ उपसंगृह्य चरणौ पप्रच्छ प्रयतो मुनिम् ॥ २ ॥ प्रजा हितकामस्त्वं नित्यं धर्मचिकीर्षया ॥ रक्षणं च परो धर्मस्तत्र युक्तोऽहमञ्जसा ॥ ३ ॥ तन्मे बलममित्रा दन्तिनो दत्तवारणः । तैरियं पृथिवी लब्धा समुद्रवसना मया ॥ ४ ॥ तेषाममितसत्त्वानां न किंचिदिह वर्तते ॥ भयमन्यत्र रोगेभ्यस्तथैषां भपमुत्तमम् ॥ ५ ॥ तेषां पुरस्ताभिखिला चिकित्सा कीर्तिता म(त्व)या ॥ मझं शुश्रूषवे सम्पग्भगवन्व्यक्तलक्षण ॥ ६ ॥ बस्तयो हि चिकित्साधं व्यापित्वात्सर्वमेव वा ॥ तेषां विधिं विशेषेण भगवन्प्रब्रवीतु मे ॥ ७ ॥ तस्य तद्वचनं श्रुत्वा पालकाप्स्ततोऽब्रवीत् ॥ उवाच निखिलं त्वेवं विधिवत्सिद्धिदायकम् ॥ ८ ॥ गुणानुपद्रवाँचैव कृत्याकृत्पविनिश्चयः ॥ पेषु वा स्थापनं कार्यमनुर्वासनमेव च ॥ ९ ॥ केवलं चानुवास्या ये येषु वा स्थापनं हितम् ॥ तत्र द्रव्यमाणानि स्रोहस्तिनिकहयोः ॥ १० ॥ ५९३ *