पृष्ठम्:हस्त्यायुर्वेदः.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्र गवां पपसश्चतुःप्रस्थे मधुकभद्रदारुणोऽर्धपलं पेषयित्वाऽधिश्रयेत् । प्रस्थान्पञ्चात्र तैलं पञ्चमालोज्य पाचयेत्, तदनुपदग्धं सिद्धमवतार्य बस्ति कर्मपानाभ्यङ्गनस्यकर्मसूपयोज्प यथार्थ सिद्धिर्भवति । अथ-वज्रकतैलविधिं व्याख्यास्यामः । बलातिबलयोः पलशतं खण्डशः कल्पयित्वा िवंशतिप्रस्थेऽपामधिश्रयेत् चतुर्भागावशिष्टमवतार्य निष्काथं तत्राऽऽवपेत् । देवदारुमधुकराम्राजीवक र्षभकाकोलीमुद्रपर्णीमाषपणमेदामहामदेछिन्नरुहाकर्कटशृङ्गीपस्याकाकनाशा इत्येतेषामौषधानां कार्षिकान्भागान्कृत्वा पयोष्टगुणं निष्काथ्यानूपानां मांसानां पलशतप्रमाणं पञ्चमं तैलप्रस्थं कृत्वाऽधिश्रयेत् । तद्यथार्थसिद्धमवतार्य सर्ववात जानां विकाराणां निबर्हणार्थं दद्यात् । एतेनैव निष्काथेन प्रतिवापौषधैश्च पयो जाङ्गलरसनिहितैः सिद्धं सर्पिः कृत्वा पित्तजानां विकाराणामुपशमनीयं बला अथ त्रिवृतविधिमनुव्याख्यास्यामः। द्विपञ्चमूलं श्वदंष्ट्रा द्विदर्भ द्विगुच्छं द्विशैरेयकं वत्सादनीशतावरीकुलत्थय वबदरश्रीपणमधूकानां पूर्वोद्दिष्टमाणं निष्काथं कृत्वा सर्वमधुरपतीवापः । अनन्तावनकुटन्नटं द्राक्षासवलोधहरिवरसरलभद्रदारुव्याघ्रनखरान्नाकुष्ठतगार हरेणुकापिप्पलीशृङ्गवेरचव्यातमालपन्ननलिकोशीरमञ्जिष्ठादारुहरिद्राणां सर्षेि स्तैलवसानां प्रस्थे प्रतिवापं कार्षकमौषधानां भागं कृत्वा चतुर्गुणेन पयसा संयोज्य विंशतिपलकं मांसप्रमाणं कृत्वा जाङ्गलानूपोदकानां रसं त्रिगुणं स्वज । वमथितमवतार्य ततो नक्रमहिषवराहशिशुमारवसानामुपदानं कृत्वा यथार्थ कटाहेऽधिश्रयेत् । तं मन्दाग्निा सिद्धं यथाक्रममवतार्य सिद्धलक्षणसंपन्न कनीपसं तृवृतमाचक्ष्महे । ततस्तद्वातसमुत्थानां शरीराणां च हस्तिनां नस्य कर्माभ्यङ्गयोजनोत्तरपानेषु हितं तब्द्यथार्थमेवंविधानामन्येषां च प्रयोजपेत् । इत्येवं तृवृतविधिराद्यः कनीयान्व्याख्यातः ॥ अथाशीतिव्यञ्जनस्य वायोर्निबर्हणं कोष्ठानुगतशरीरस्य च वापोर्विशे षतः प्रशमनं जलधरसलिलविसर्गादद्भिराप्यायितायां मेदिन्यां बस्तिनस्या भ्यङ्गाच्छपानादिषु सततमुपयुज्यमानं तेजोबलवीर्यसंपादनं चाऽऽयुषश्च पत्पा नयनं रसशोणितमांसमेदोस्थिमज्जाशुक्रक्षयावसमानां च बलक्षीणमदक्षीणो त्कर्णकवातगतिहस्तग्रहदन्तरोगपादरोगगात्ररोगातिदेहानां वातस्कन्दबा