पृष्ठम्:हस्त्यायुर्वेदः.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जा विकाराः प्राजनाङ्कशाभिघातज्जाश्च विकारा न संभवन्ति । वयःस्थापन स्वरवर्णजननं रोमवर्णप्रसादच्छवीजननं धमनीशिरास्नाय्वस्थिमांससंधीनां च स्थिरीकरणं नस्पकर्मण्यस्य विधानम्, कर्मणोऽस्य वा विधानम्, गुणाथ व्याख्याताः ॥ अत ऊध्र्व बस्तिगुणान्वक्ष्यामः ॥ यथावत्तस्य विधाऽपरां शकटिकाशास्वावातभमविच्युतममथिताष्ठीव्यला ङ्गलवंशवक्ष्यन्नयन्पिस्थिजघनकलाभागेषु सर्वाङ्गगतेषु वातविकारेषु मशस्तो बस्तिः । तस्य विधानं यथाविधबस्तिसिद्रौ वक्ष्यामः । उत्कृष्टक्षयभागेषु शय्याभा गोपगतानां ये ब्रणा रुधिरमस्राविणः, तोद्भेदपरिकर्षणदाहपूरयसिका(?)- न्विताश्च कण्डूबहुलाः पिच्छिलपरिस्राविणः । तेषां प्रशमनार्थं यथागुणत्रेह मविचारः पूर्वमेवोक्तो द्विब्रणीपेऽस्माभिरिति । अविदितपुरुषरक्षणार्थ, सर्प कीटपिपीलिकारक्षणार्थ, दण्डाङ्कशमतोदनरक्षणार्थ सायकप्रपतनरक्षणार्थ, सुमनोदुर्मनस्त्वप्रत्यवेक्षणार्थं च सर्वकालं मन:मलूहाद्नो दीपः कार्यः । तस्मा नित्यं संनिहित्ततैलैौषधविधानं वारणाय विधेयं भवति नित्यं भिषजा । यदाऽ ण्डकोशो मदाभिभूतस्य तीक्ष्णोष्णभावान्मूत्रस्य सततप्रसेकात्पुष्पितो भवति, तदाऽस्य परिपोद्यते छविरभीक्ष्णम्, ततोऽस्प द्रोणे पलप्रमाणेन गैरिकचूर्ण संयुतेन घृतकुडवेनाण्डकोशनिर्वापणार्थमभ्यङ्गं दद्यात् । अथाभ्यङ्गार्थं पत्रभङ्गीपं तैलं व्याख्यास्यामः । सौभाञ्जनकैरण्डामिमन्थतर्कारीमुरसानिर्गुण्डीकर्णिकारसीकधल्पर्ककुबेरा क्षीणां प्रत्येकं पत्रभङ्गं जर्जरं समुपकल्प्य तेषां रसानां त्रीन्भागान्निष्पीडयेत् । तत्र देयं चतुर्भागं तिलतैलमनुपहतं महति कटाहे ताम्रमपे कृष्णापसे वरे वरपाकं विपाचयेत् । वातसंपूर्णकोष्ठानां वाताभिभूतशरीराणां गात्ररोगेषु सर्वेषु विशेषेणाभ्याङ्गार्थ तैलमेतदग्रतः कार्यं भवति । अथ बलातिबलातैलमनुध्याख्यास्यामः । बलातिबलापलशतमपां विंशतिप्रस्थे जर्जरीकृत्य मुमक्षालितं विपाचयेत् । यतश्चतुर्भागावशिष्टं नखास्थापिनं सुंसंवर्तितशरीरं निष्काथ्यावतारयेत् ।