पृष्ठम्:हस्त्यायुर्वेदः.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ हविध्यध्यायः ] हस्त्यायुर्वेदः । ५८७ प्रशान्तिमुपगच्छन्ति, वक्षसश्च बलवृद्धिमनुजनपति, पूर्वकायः प्रबली भवती त्पेतदनुभक्तिकं त्रेहपानमुपदिशन्त्याचार्याः । अत ऊध्र्वे षट्टतुविभागजं खेहपानविधिमनुव्याख्यास्यामः । यदा तु ग्रीष्मे-विततमयूखः सविता मध्यमकोष्ठमुपगतो भवति, तदा वायुः भवलो भवति । स्वरपरुषोष्णभावात्कालस्य तद्वायुरभिभवति, तदा नृवार णानां नानाविधलिङ्गवेदनाश्च विकारान्कुरुते । तदा तैलमसंस्कृतं त्रिभागज लसंयुतं मासमेकं खजाकमथितमच्छं दापयेत्पूर्वाङ्गे । ततः प्राप्त मध्याहे चावगाह्य यथा चतुर्गुणसंयुक्तं तृणमुपयोजयेत्, विधां (*चास्मै यथावत्प्रमाण विहितां दद्यात् । मृत्तिकारक्षणं च विशेषतः कार्यम् । एतमुपयोजयेत्, न वातदोषजा विकाराः संभवन्ति । तदा तैलोदकपानेन क्षुत्पिपासासहत्वं प्रसन्न तनुरोमता ग्रहणीदृष्टिबलं मुखशोषं पित्तकोपचपेत् । रोगाभवो बृहत्कापता वारणानां भवति ॥ अथ-वर्षाकाले क्षीयमाणदिवसे मन्ददिवसकरविसर्गे निवितजीमूतसलील विसर्गे कलुषनदीजलावर्तबहुलनानामृदुशष्पमृत्तिकाभक्षणकृतैर्देवैः क्षीणधातु शरीराणां वारणानां नानाविधलिङ्गवेदना विकाराः संभवन्ति । तस्माद्यथोक्तम माणमानुभुक्तिकं सर्पिस्तैलं यथाकालं पाययेत् । तेनैषां वातपित्तजा विकाराः । शान्तिमुपगच्छन्ति । स्थिरकठिनशरीरा अनाविलाः संभवन्ति । निरुपह तवीर्याः संपूर्णदेहाश्च विशेषेण भवन्ति । अथ शरदि' दिवसकरकराभिनिर्दिष्ट जगति विहितवीर्यास्वौषधीषु सस्यै र्बहले भूमिभागे मन्दवृष्टिजलधरशब्दवीरुद्वनस्पतिवानस्पत्यानामसमत्वागत वीर्यत्वादुष्णभूयिष्ठास्वौषधीषु तदा सर्पिःक्षीरपानं वारणानां प्रातः संविधेयं भवति तदा च क्षीरसर्पिभ्यां निदाघसमुत्थाः पित्तप्रबलभूयिष्ठा विकाराः प्रशा न्तिमुपगच्छन्ति । यदा नु हेमन्ते भिन्नजात इव विश्धंभरा इव बाष्पायमाणाः सरितः सपृष्ठ जलमभिवहन्ति तदा यवसौवीरकसंस्कृतं तैलमुपदिशन्ति । तेनैषां श्लेष्मण संजापमानस्य प्रवेगोपशमो भवति । वातश्लेष्मप्रशान्तूिश्च भवति । शिशिरे यदा तु शिशिरपवनजातशेषे गजानां संजातबलवीर्याणामौषधीः नामुपयोगाच्छूष्मणो भूपस्त्वं भवति । वारणानामत्यर्थ स्थूलशरीराणामिति ।

धनुश्चिद्वयान्तःस्थः पांठो नास्ति कपुस्तके १ क. देहा । २ क. ख. खजानम० । घ. खर्जवम० ।