पृष्ठम्:हस्त्यायुर्वेदः.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ४ उत्तरस्थाने शंभशार्दूलस्वजिवमराश्वतरपृषभोष्ट्ररुरुगवयगोधाश्धविधशल्यकष्टमालकुरमाँ सैर्यथोद्दिष्टप्रमाणैरसंस्कृतं युक्ताम्ललवणं नातिन्निग्धं च भोजनं दद्यात् । ततः कुलीराङ्गनकशिशुमाररोहितमत्स्यकूर्ममहाशकलपाठीनचर्मिणाम् । तैलोदकपिप्पलीमरिचसैन्धवलवणसंयुतेन मातुलुङ्गरसविस्फार्जितेनार्जकपत्र च्छन्नसुगन्धेन रसेन यथोद्दिष्टममाणेन भोजयेत् । एतैरेव मांसैर्यथोद्दिष्टः सुक ल्पितैर्दधिघृतमरिचसैन्धवशृङ्गवेरगुडशर्करामाधुर्योपगतं सुसंस्कृतमुपकल्पयेद्वे सवारम् । तेनास्य वर्धितशरीरस्य स्थिरकठिनमांसजाव्यायामास्यमर्थ च निषेच्यते । गोजाविमहिषीणां सुसारेण वधा युक्तानि भोजनान्युपकल्पयेत् । तथा गुडकृशरादधिपिण्याकरससंयुक्तं पिण्डं भोजनं दद्यात् । तस्यैव हित शरीरस्य कृमिकोष्ठहरं मूत्रबस्तिविशोधनं छविवर्णप्रसादनं सैन्धवसुवचिंकाय वक्षारं सौवर्चलरोमकपिप्पलीमरिचशृङ्गवेरचव्याजमोदतेजोवतीपिप्पलीमूलक हस्तिपिप्पलीचित्रकहिङ्गुविडङ्गपञ्चलवणसंयुक्तं यथोक्तप्रमाणमासवं सुरां वा मतिपानं दद्यात् । ततः प्रतिपानपीतस्य षड्रात्रोषितस्य पिप्पलीशृङ्गवेरमधु तेलं मुरा गुड इत्येतत्षडङ्गमतिपानं ग्रहणीदीपनं रुचिकरं त्वक्प्रसादनं दद्या त् । एवमेतेन विधिना पीतः त्रेहप्रतिपानभोजनविकल्पैर्विधिविहितैः संरक्ष्यः । विशेषि(प)तश्च नागानां मृद्भक्षणरक्षणं कार्यम् । पर्यवगताक्ष कवलकानां मृत्तिकाणां(नां) च विशेषेणाभिलषमाणं पिपासित मार्गकुवलयवसाभिनन्दिनं दन्तिनं विशेषतः प्रवाहिनं भिन्नलिण्डशय्यास्तम्भाः भिकामं प्रमेहवन्तमतिन्निग्धं विद्यात् । ग्रथितंपुरीषमलाघवोपपनं पर्यश्रुकमाध्मातं रूक्षवृत्तलिण्डं दुर्बलामेिं सलि लकाममतिमाथशीलमन्निग्धं विद्यात् । त्रिग्धं मृदुन्निग्धविच्छिनं पुरीषं लाङ्गलश्रवणहस्तैः सम्पक्परिवीजिनं प्रसनेन्द्रियमानसं सर्वाहारजाताभिकामिनं सुन्निग्धं विद्यात् । अथ प्राग्भोजनविधानमनुव्याख्यास्यामः ॥ भोजनास्थापनेऽर्धाद्वकीयं द्रोणं पूर्वेद्दिष्टप्रमाणेन विधाझेहं पापयेत् । तत पश्चादूक्षं भोजयेत् । तेन नागस्याधःकायः प्रबली भवति, वातमनुलोमयति ग्रहणीं दीपयति, बलवर्णदृद्धिं वोपजनयति, वातमूत्रपुरीषाणां च यथाकालं विसर्गमुपपादयति ॥ यस्तु पूर्वमत्रं भुक्त्वा पश्चात्त्रेहममुपिबति, तस्प नयनदन्तगात्रगता विकारा १ क. ततोऽर्धा पादहीनां वृं० ।