पृष्ठम्:हस्त्यायुर्वेदः.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ज्ञेहविध्यध्यायः ] हंस्यायुर्वेदः । ५८५ श्लेष्मणश्चाऽऽथिक्यमभिनिवर्तयति, पित्तजातंव्याधीनामुपशमने वर्तते । बल वर्णकरं वृष्यं कृत्स्राङ्गहणं मतम् । वर्चःसंघातकरमग्दिीपनं श्वयथुगात्ररोगप्र शमनं रक्तगुल्मशोणिताण्डवातरोगोत्कर्णकवातानाहस्कन्धसर्वाङ्गरोगपाण्डुरोग तृणशोषीशिरोभितापगात्रशोफशूलविद्युन्मालीकदम्बपुष्पहस्तग्रहंमन्याग्रहाक्षि रोगसमुत्थानां च सर्वेषामुपशमने सर्पिर्वर्तते । तत्र तैलं पित्तं वर्धयत्युष्णवीर्य त्वात्, कटुकषायत्वाख श्लेष्माणमुपशमयति । त्वग्वर्णप्रसादजननं मृदुकरण मेकाङ्गगतानां च व्याधीनां सर्वाङ्गगतानां च, विबन्धभेदनम्, कण्डुकृमिहरम्, कोष्ठविशोधनम्, आक्षेपकानां च बाह्याभ्यन्तरायामज्जवगण्डग्रहाभिस्थूलानां च लेखनम्, मृत्तिकाभ्यवहारिणामवसन्नमृत्तिकानां वातश्लेष्मकृतानां च व्याधीनां सर्वेषामुपशमं नयेत् ॥ स्त्रेहपानाशानैस्तैलमुपदिश्यते । वसा तु सर्वाभ्यवहाराणां परमधातुतुल्यवीर्यत्वात्सर्पिषो वातपित्तोपशमनी श्लेष्मा शिरोविरेचकजननी सर्वरसानां च धातूनां परमगुणगुणिता विशेषवती तत्प्रसवधर्मत्वाच्छुक्रस्येति । मज्जा तु रसशोणितमांसमेदोस्थिमज्जपरंपरोपयोगत्वाद्रसाद्यानां परम धातुमभिनिवर्तयतीति । सा तु मजाक्षये हि भिषजा नागाय दीयते । यो हि धातुः क्षयमुपगतो भवति तस्य च धातोस्तेनैव च धातुविशेषेण वर्धनं कार्पम् । मज्जां वातप्रशमनी श्लेष्मणो भूपः संवर्धनीति । अथ बलातैलादीनां सर्वेषां संस्कृतानामभिहिताचतुर्भागविहीनो विधिः । तैलसर्पिर्वसातृवृतानामुप संस्कृतानामर्धपानां सवितव्यं भवति । व्याधितानामव्याधितानां द्विरंदपतीनां यथाव्याधिबलं सर्वत्र सात्म्यं वयो ग्रहणीबलाबलं वा रौक्ष्योक्ष्याकर्षापकर्षण खेहपानं कार्यम् । त्रेहपानात्परमात्प्रभृति यथापूर्वोद्दिष्टस्रहपानेनोपरमेत । अरुं पवागू मुद्भयूषं वा यावद्वा पुरीषं संबध्यते मुद्भयूषन्नेहलवणं दद्यात् । घनमनवसंहतमन्निग्धवर्णमविच्छिन्नश्लक्ष्णं पाण्डुभावोगतमविदग्धमनुष्णमदुर्ग न्धमित्येवं बलं शुद्धमभिविज्ञाय त्र्यहंमुद्रयूषरसं भोजनं च दद्यात् । सर्वसेकं च मुखबर्ज तैलेनोपहरेत् । सर्पिषा चास्य मुखमभ्यञ्जयेत्'। एतेन क्रमोपचारेण संजातबलमांसस्य यथोक्तप्रमाणं प्रतिपानं दद्यात् । ततः शीतोपचारम् । अत ऊध्र्वं विधोपचारमुपदेक्ष्यते । तस्य यथोक्तविधायाश्चतुर्भागमवधार येत् । ततोऽर्धा पादहीनां संपूर्णा दद्यात् । संपूर्णायाः स्त्रेहश्चतुर्भागमवतारयेत्। ततस्तरतमयोगे नव विधाः खेहाभ्यासोऽस्य पुनर्मासं, द्रोणेऽस्य पञ्चाशत्पल ममाणं लावतितिरककरकपिक्षलानां यथाप्रधानमवचारयेत् । ततो महिषवराह