पृष्ठम्:हस्त्यायुर्वेदः.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुमिविरचितो – [४ उत्तरस्थाने बलं नागेषु राजेन्द्र प्रोक्तं प्रकृतिसंभवम् । तद्धलं द्विविधं भूप प्रवक्ष्यामि यथाक्रमम्) ॥ विधात्रेहरसैर्युक्तं यश्च प्रकृतिसंभवम् । तद्धि भेठं बलं राजन्बले बलसमाश्रितम् ॥ ततः प्रयोगे सततं विपरामर्षणे तथा । षट्सा यं महीपाल आहारविधिमाश्रिताः । तेषां विभागं वक्ष्यामि यथातथ्यं महीपते । कषायं मधुरं शीतं पित्तानं तिक्तमेव च । अम्लं च लवणं चैव तस्य तीक्ष्णं च कोपनम् । कषायं कटुकं तिक्तं रुक्षे चानिलकोपनम् । अम्लमुष्णं च लवणं त्रिग्धं वातनिवृत्तये ॥ मधुरं लवणं सौम्यं शीतं च कफवर्धनम् । तितं च कटुकं चैव रुक्षं च कफनाशनम् । मधुराम्लकषायाणां लवणस्य तथैव च । दद्याद्रत्निपलिकं दन्तिने प्रथमे दिने । कटुकस्याथ कर्ष च तिक्तस्य द्विगुणं ततः । भागान्वृद्धया क्रमः काय यावत्सम्यक्प्रतिष्ठितः । पित्तसात्म्यस्य नागस्य परिशुद्धभुस्वस्य च । पलानि मधुरः पिण्डपष्टिर्दया विजानता । तिक्तकः पञ्चवहीनो वा दशभिः कटुको नृप ॥ षष्टिरेव कपापस्य लवणस्य तथैव च । सप्तहस्ताय दातव्यो हीनो हीनाप दन्तिने ।। विज्ञेयो विंशतिपलः केवलस्तु प्रमाणतः । ज्ञेयमौषधवर्गाणां प्रमाणं पिण्डवत्प्रभो । मात्रया हीनया द्रव्यं विकारं न निवर्तयेत् । • अधिकं कुरुते दोषं वारणस्य महीपते ॥ तस्माद िबलं कालं शरीरं प्रकृतिं वपः । सात्म्यं सत्त्वं च विज्ञाय भिषग्भेषजमाचरेत् । द्रोणे तु विंशतिपलं भेषजानां विधीयते । एतत्प्रमाणं (*घृतमनु)विधेयं भवति, अथ वातरक्तपित्तोपशमने वर्तते,

  • कपुस्तकस्थोऽयं पाठः । ख-वपुस्तकयोस्तु वर्णानां त्रुटिरेव स्थपिता ।