पृष्ठम्:हस्त्यायुर्वेदः.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ स्रोहविध्यध्यायः ] हस्यायुर्वेदः । तत्र सर्पिः पाने ******************************** । सुखोष्णोदकेनावसेकः पानं चानुसंभवः ॥ न्नेहपानगुणानन्यत्(न्यान्)प्रवक्ष्याम्पत उत्तरम्। तत्र तावत्प्रवक्ष्यामि महापीनीगुणोद्यम् ॥ तत्रोपर्युक्तया विधिवदुत्साहं जनयत्यपि । लाघवं चैव गात्राणामथवाऽप्रेर्विवर्धनम् । अध्वनस्तूर्णगमनं महतश्चाम्भसो भवेत् । लवणं मर्दनं चैव गृहप्राकारदन्तिनाम् ।। कर्माण्येतानि मातङ्गो गुरुण्यन्यानि यानि च । तानि पीनीगुणैर्युक्तः करोत्यपरिश्रमम् । दृढसर्वेन्द्रियबलः प्रसन्नत्वक्तनूरुहः । भवत्युत्साहसंपन्नो यथाकालप्रभेदैनः ॥ दुःस्थानमथ दु:शय्यां वधबन्धाभिघातनम् । न्नेहपीतो विषहते शीतमुष्णं च वारणः । मुखसंवर्तनप्रेक्ष्यः मुखस्थानोपवेशनः । भवत्यपि च मातङ्गः सुखसर्वाङ्गचेष्टितः ॥ अत ऊध्वं तु नागानां सर्वसेके गुणाञ्शृणु । गुरुण्मन्नो मलहरः न्नेहनो बलकृत्तथा ।। मृदुकरश्चेति गुणाः षडभ्पङ्गे प्रकीर्तिताः । एतत्ते कीर्तितं राजन्यथा पृष्ठं त्वयाऽनघ ।। • अथ मोवाच नृपतिर्विनयेन कृताञ्जलिः । यस्तु दृष्टो भगवता आहारविधिविस्तरः । सर्वं दास्यामि नागेभ्यो तत्ते तस्मिन्महामुने । गुणा ये भगवन्दृष्टा तन्मे व्याचक्ष्व पृच्छतः ॥ एकैकस्य च ये दोषा गुणाश्चैव महामुने । ततः प्रोवाच भगवान्पालकाप्यो महामुनिः । कृत्पाकृत्यविधिं सर्वं वारणानां यथाक्रमम् । ( शृणु सर्वमशेषेण यत्त्वं मां, परिपृच्छसि । धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके ।

  • १ क. "युक्तवि"। २ क. *दतः । दुः” ।

५८३