पृष्ठम्:हस्त्यायुर्वेदः.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्रोहविध्यध्यायः ] १५८१ इत्यङ्गापेदं शुभलघुपदयुतं दाना(नं) त्रेहानां द्विरदहितं विधिक्षः । कृत्स्त्रं प्रोवाच क्रमगुणविधियुक्तं विमो नागानां प्रथितविपुलबुद्धिः ॥ ६२२ ॥ इति ॥ इति श्रीपालकाप्ये गजायुर्वेदशात्रे महावचने श्रीपाठे चतुर्थे उत्तरस्थानेऽन्नपानविधिकथनं नाम तृतीयोऽध्यायः ॥ ३ ॥ अथ चतुर्थोऽध्यायः । अथ खलु भगवन्तं पालकाप्यं रोमपादोऽङ्गाधिपतिर्राधिकतरमपृच्छत्।'भग वन्, कति त्रेहविशेषाः, कति त्रेहपाकविशेषाः, कति न्नेहद्वाराणि, कति नेह संयोगाः, केषां च व्याधीनामुपशमनकः न्नेह उपदिश्यते, किमुत्तममध्यमा धमानां नागानां त्रेहप्रमाणम्, केपां च त्रेहपानं मदेयम्, तदशेषेणाभिधत्तां भगवान्’ इति । अथ भगवानुवाच पालकाप्पाऽङ्गरामपादाय -‘शृणु भद्रमुख त्रेहान्, त्रेह विशेषांश्च । तद्यथा-नवनीतं घृतं मस्तिष्कं मज्जा तैलं फलतैलं मेदो वसा शुक्रमित्येते नव स्नेहविशेषा । तत्र शुक्रमस्तिष्कव्यपेतान्गाग्र्यः प्रोवाच । अथागतः त्रेहान्सप्ताग्रिवेशः । चतुरः न्नेहांस्तेषां प्राह गौतमः सर्पस्तैलं वसा मज्जा चेति । भरद्वाजस्तु स्थावरजङ्गमौ द्वौ विशेषो प्राह । स्थावरस्ट वीरुद्वनस्पतिवानस्पत्यजः । तत्र तैलं प्रधानम् । जङ्गमस्नु पयोदधिनवनीतघृ तानि । तेषु घृतं प्रधानम् । पानविरेचनानुवासनोत्तरवस्तिककटबस्त्यभ्यङ्ग गात्रसेकनस्यकमाणेि च । एतेषु प्रयोज्याः क्रेहाः। तत्र प्रवरमध्यमाधमवारणानां नेहपानं भदेयम् । तत्र कान्तपिपासितपाकलाभिभूतातियातबलक्षीणमदक्षीण कृशविभिामाशापविकाराणां च बालवृद्धधेनुकानामङ्कतमुखद्वारणामकामाना मभपानेष्वप्रज्ञप्तानां च तेहपानमादेयं भवति । देया च तेषां विधा त्रेहसंयुक्ता यथाद्रोणप्रमाणविहिता । तयाऽस्य धातुवृद्धिश्छविप्रसादः सौमनस्यं यवसा भिनन्दनत्वं वोपजायते । तत्र मात्रामाणं यथाविचारं स्रहगतमनुव्याख्यास्यामः । द्रोणेऽधडकीनं प्रमाणं कृत्वोत्तमस्यारन्निप्रमाणस्य विचारः । त्रेहोपयोगेन