पृष्ठम्:हस्त्यायुर्वेदः.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४६ पालकाप्यमुनिविरचितो- [ ४ उत्तरस्थाने उष्णचैवोष्णवीर्यश्च गुरुश्चापि प्रकीर्तितः ।। वातरोगहरो तृष्यः स्रोतसां परिशोधनम् ॥ ७३ ॥ तैलादर्ध ते मात्रा ततोऽधं त्रिवृता भवेत् ॥ मज्ज्ञश्चैव वसापाश्च मान्ना प्रायोगिकी स्मृता ॥ ७४ ॥ इति ज्ञेहगुणाः प्रोक्ताः कालाकालौ च हस्तिनाम् ॥ अतः परं प्रवक्ष्यामि त्रेहपाने विधिं नृप ॥ ७५ ॥ शालां सुगुप्तां सुच्छि(च्छ)न्नां सर्वतः कटकैर्तृताम् ।। • देशे यथोक्त कुर्वीत नित्यं बलिविभूषिताम् ॥ ७६ ॥ अजातपर्व तरुणं शुचि चोपहरेतृणम् ।। पथाकालं यथामात्रं स्थलजं च विशेषतः ॥ ७७ ॥ उष्णोदक:(कं) कटाहानि स्रानपानाप दन्तिनाम् । नित्यं संनिहितानि स्युः त्रेहकाल उपस्थिते ॥ ७८ ॥ अलिन्दांश्च घटांश्चैव पर्याप्तानुपकल्पयेत् । पानार्थे चैव तैलस्य सलिलस्य च हस्तिनः ॥ ७९ ॥ काष्ठान्युष्णोदकस्यार्थे संशृष्कान्युपकल्पयेत् ।। कुशलांश्चापि गृह्णीयान्नागस्य परिचारकान् ॥ ८० ॥ वैद्य च शास्रकुशलं दृष्टकर्माणमेव च । हस्त्यध्यक्षं च तत्रैव संदिशेत्पितृवद्धितम् ॥ ८१ ॥ मुस्वद्वारविशुद्धाय सुकृतं पानपायिने ।। हस्तैः सुमतिं कृत्वा तैलं नागस्य दापयेत् ॥ ८२ ॥ दापयित्वा न्यहं मद्य ततो रूक्षं च भोजनम् ।। विरूक्षितशरीराय न्नेहं नागाय दापयेत् ॥ ८३ ॥ उपापं चापि सुकृतं तैलं चक्रसमुद्रवम् ।। स्थापयेद्धेोजने स्रिग्धे तैलं दद्याद्विचक्षण ॥ ८४ ।। उपार्जयेच त्रिवृतं सर्वे नेहसमुद्भवम् ।। पानार्थे च वसा ग्राह्या गात्राभ्पङ्गे च हस्तिनाम् ॥ ८५ ।। मापयित्वा प्रमाणेन यथोतेन तु बुद्धिमान् । यथोक्त तिथिनक्षत्रे स्वस्थं विज्ञाय वोरणम् ।। ८६ ।। भक्ततैलप्रमाणेन श्रेष्ठां मात्रां प्रदापयेत् ।। पादहीनं(नां) तथा मयां मध्यार्थेन कनीयसीम् ।। ८७ ॥ १ क, ख. ध. स्वच्छ । २ ख. ध. चारणम्'।