पृष्ठम्:हस्त्यायुर्वेदः.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४४ पालकाप्यमुनिविरवितो – [ ४ उत्तरस्थाने-- खेहं प्रवाते पिबतो वायुरङ्गानि बाधते । अजीर्णाध्यशनाद्वाऽपि त्रेहे कोठे व्यवस्थिते ॥ ४३॥ आनाहो वा भवेत्तस्य मरणं वाऽपि जायते ॥ अतिीयावगाहाच कायाग्रिरुपशाम्यति ॥ ४४ ॥ पिपासा वर्धते चापि त्रेहस्तस्य न पच्यते ॥ यदि पीत्वा गजः त्रेहं जलमकथितं पिबेत् ॥ ४५ ।। तेन तस्यापचारेण त्रेहो भवति दुर्जरः ॥ वेदना सर्वगात्रेषु वमथुश्चापि जायते ॥ ४६ ॥ कुक्षिर्विहन्यते चास्य दौर्मनस्यं भवत्यपि ।। सात्म्यासात्म्यविपर्यासात्त्रेहपीतस्य दन्तिनः ॥ ४७ ॥ जापते चापि दौर्बल्यं रोगाः प्रादुर्भवन्ति च । अतिचङ्क्रमणाद्वाऽपि सद्योव्यायामसंभवः ॥ ४८ ॥ वायुः प्रचलितः स्थानात्सर्वाण्यङ्गानि बांधते । पाकलस्तस्य भवति प्रैवोपो(?) वाऽतिदारुणः ॥ ४९ ।। भेदश्च पर्वणां चापि गात्राणामपि वेष्टनम् ॥ न्नेहोपयोगाद्विगुणः परिहारो विधीयते ॥ ५० ॥ विरुक्षणं बृहणं च कर्मणश्च प्रवर्तनम् ॥ तस्मात्कुयाद्बुधो वैद्यस्तैलपाने त्ववेक्षणम् ॥ ५१ ॥ दुर्युक्तं तैलपानं तु विषं हालाहलं भवेत् ॥ इत्येष नेहपानस्य कालाकालविधिः स्मृतः ॥ ५२ ॥ स्थावरो जङ्गमश्चैव द्विविधः स्नेह उच्यते । तस्य चैवं प्रयुक्तस्य विकल्पा बहवः स्मृताः ॥ ५३ ॥ सर्पिस्तैलं वसा मजा मेदो मांसं पपो दधि । एवमादि विजानीयात्झेहजातं पृथग्विधम् ॥ ५४ ॥ तिलादिजस्तु यः स्रोहः स्वशात्रे परिकीर्तितः ।। स्थावरस्तु समाख्यातो नानाफलसमाश्रपः ॥ ५५ ॥ तत्र सर्पिर्वसा मज्जा तैलं चैवोत्तमं स्मृतम् ॥ घृतं तु सविशेषत्वात्तेषु श्रेष्ठतमं स्मृतम् ।। ५१ ॥ यथावदनुपूर्वेण गुणांस्तस्य निबोध मे । मधुरं शीतवीर्यं च लधुं चैवाविदाहि च ॥ ५७ ॥ १ ख. घ. साधते । २ क. प्रवापो । '