पृष्ठम्:हस्त्यायुर्वेदः.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ लेहपानाध्यायः ] हस्त्यायुर्वेदः । त्रिवृतार्थे प्रदातव्या गात्राभ्यङ्गे च दन्तिनाम् । हेमन्ते तैलपानं तु वर्षासु च विधीयते ।! २९ ॥ वसा मजा च नागानां वसन्ते संप्रदीयते । शरत्काले निदाघे व घृतपानं प्रशस्यते ॥ ३० ॥ एवं यथर्तुसामान्यात्त्रेहं नागेषु दापयेत् ।। वर्षासु पुष्टा नागेन्द्राः स्नेहादिभिरुपक्रमम् ॥ ३१ ॥ तुरङ्गा रणदक्षाश्च योधाश्च रणकर्कशाः ।। वैशेषिकं बलं लब्ध्वा व्यायामैश्च स्थिरीकृताः ॥ ३२ ॥ प्रवातवर्ष कुवत राज्ञः कर्माष्टमासिकम् ॥ न मार्गमतिपन्नेषु परेषां विषयेऽपि वा ॥ ३३ ॥ शक्यं बलिक्रियां कर्तु रोगाणां वा प्रतिक्रियाम् ।। हेमन्तकाले च पुनर्निदाघसमयेऽपि च ॥ ३४ ॥ न्नेहपानं बद्धफले तृणे शुष्के च वर्जितम् ॥ दोषाः शुष्कतृणे दृष्टा तथा बद्धफले तृणे ॥ ३५ ॥ शुष्केणानहते नागः सफलेनास्य जीर्यति ॥ दिनैर्हमन्तिकैः पीतं पानं सम्यहून जीर्यति ॥ ३६ ॥ अथ सर्पिः पिबेन्नागः शीते तदपि लीयते । नैिदाघे तेलपानेन मूछों तन्द्रा प्रजापते ॥ ३७ ॥ पिपास वमथुश्चापि त्वग्दोषाश्चैव दन्तिनाम् । तस्माद्वेमन्तकालं च ग्रीष्मकालं च वर्जयेत् ॥ ३८ ॥ हिताहिततो नागानां कालाकालविभागवित् ॥ काले वा यदि वाऽकाले तैलं दत्तमजानता ॥ ३९ ॥ सर्वानुपद्रवान्कुर्याद्वापादयति वा गजम् ॥ रक्षेद्यत्नेन वैद्यस्तु तेहपीतं मतङ्गजम् ॥ ४० ॥ आतपाञ्च प्रवाताव अंजीणांध्यशनादपि ॥ अतितोयावगाहाच पानाच्छीतस्य चाम्भसः ॥ ४१ ॥ सात्म्यासात्म्यविपर्यासादतिचङ्क्रमणादपि ॥ निदाघे झेहपीतस्य दोषाः पूर्वं प्रकीर्तिताः ॥ ४२ ॥ १ ख. दृष्टा । २ क. दिने हेमन्तिके।। ३ क. ख. घ. तिलपानेन । ४ क.

  • सा च मधुश्चा” ।