पृष्ठम्:हस्त्यायुर्वेदः.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हस्त्यायुर्वेदः । अथातश्चतुर्थमुत्तरस्थानमारभ्यते । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ हितं निःश्रेयसं चैव गजानामनुचिन्तयन् ॥ १ ॥ यदा मयेयं विजिता सारान्ता वसुंधरा । तदा मे वारणैस्तुल्यं न कृतं कर्म केनचित् ॥ २ ॥ गुरुभाराभिवहनं गमनं विषमेषु च ॥ सरसा मर्दनं चैव तरणं सलिलस्य च ॥ ३ ॥ तीव्राघाता विघाताश्च तोयौघस्यावतारणम् ॥ सर्वगात्रायुधत्वं च वारणेष्वेव दृश्यते ॥ ४ ॥ नान्यैरसंमिताः सन्ति गुणा दन्तिषु केवलम् ।। त्रिविधेष्वपि ये न स्युर्बलाङ्गेषु महामुने ॥ ५ ॥ अप्रमेयैर्गुणैरेतैर्बलाङ्गं प्रथमं गजाः ।। अपि शालागताः कृत्स्नां रक्षन्ति सनृपां महीम् ॥ ६ ॥ कथं ते भगवन्नागा नीरोगा बलशालिनः ॥ भवेयुर्जवसंपन्ना बलिनो मददर्पिताः ॥ ७ ॥ तेषां मे भगवन्प्रश्रमिममाख्याहि पृच्छतः ।। तैर्हि मे वाहनं तुल्पमन्यदुवि न विद्यते ।। ८ ॥ तेषां कतिविधः न्नेहः कीदृशः किंप्रयोजनः । कत्युपायाः कथं चापि प्रदातव्यो विजानता ॥ ९ ॥ यचान्यदपि नागानां कर्तव्यं हितमिच्छता ।। सदशेषेण भगवन्सर्वे व्याख्यातुमर्हसि ।। १० ।। ततः प्रोवाच भगवान्पालकाप्यो महामुनिः । पृच्छते रोमपादाय प्रश्नं गजहितं शुभम् ।। ११ ।। सर्पिस्तैलं वसा मज्जा संस्कृतासंस्कृतं भवेत् ॥ वारणेभ्यः प्रदातव्यं स्रोहजातं चतुर्विधम् ॥ १२ ॥ सवैषधप्रपोगेभ्यः स्नेहपानं मतं मम । स्रहपानं प्रशंसन्ति पूर्वाचार्या मनीषिणः ।। १३ ।। तद्धि वर्णकरं बल्यं सर्वव्याधिहरं स्मृतम् ॥ उत्तमाधममध्यानां कुञ्जराणां यथागमम् ॥ १४ ॥ १ क. विषयेषु । २ ख, घ. "संस्मिताः । ३ क. प्रदातव्या । ५६४