पृष्ठम्:हस्त्यायुर्वेदः.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ द्विवर्णीयाध्यायः ] हस्त्यायुर्वेदः । उपक्रमविधिस्त्वन्यः शास्रयोगात्वक्ष्यते ॥ <> ओषधीसंश्रिता योनिस्रयोविंशतिलक्षणा ॥ २४ ॥ विलायनं पावनं च भेदनं पीडनं तथा ।। सादनोत्सादने चैव कृमिमथ चापरम् ॥ १२५ ॥ लेपः स्वेदोऽगदः क्षारो मृदुदारणयोः क्रिया । बृहणं चापकर्षश्च संधानं शिशिरक्रिया ॥ २६ ॥ शोणितस्थापनं चैव कण्डूत्रं धावनं तथा । सादनं च वर्णश्च सवर्णकरणं तथा ॥ २७ ॥ बन्धकल्पश्च विज्ञेयस्रयोविंशतिमं पदम् ।। त्रणावस्थान्तराचैषां प्रयोगः संप्रवक्ष्यते ॥ २८ ।। श्वयथोरविदग्धस्य कार्यं स्यात्प्रविलायनम् ॥ विदमाने कर्तव्यं श्वयथोः पाचनं भवेत् ॥.२९ ॥ पकस्य तु भवेद्वेदस्तथा शोधनरोपणम् ।। छवीसवर्णकठिनं परुषं वाऽपि वर्णतः ॥ १३० ॥ मन्दोष्माणं तथा स्तब्धमाममित्यभिलक्षयेत् ।। विवर्ण नातिकठिनं सोष्माणं वेदनार्दितम् ॥३१॥ विदह्यमानं जानीयाच्छूयर्थं कुशलो भिषक् ।। सर्वतो मार्दवं शैत्यं पाण्डुता शीर्णरोमता ॥ ३२ ॥ वेदनोपशमचैव श्वयथोः पङ्कलक्षणम् । दुष्टकृशातिभीरुणां व्रणान्संवृतदेशजान् ॥ ३३ ॥ सूक्ष्मांश्चानतिपक्षांश्च भेदनीयैरुपाचरेत् । वेदनाबहुले दृष्ट शिरामर्मतमाश्रिते ॥ ३४ ॥ संधिजे वाऽपि कर्तव्यं दन्तिनां पीडनं व्रणे। केवलं यस्तु संधानंमल्पदोषो न गच्छति ॥१३५ ।। संधानं तस्य कर्तव्यं संधानीयैरुपक्रमैः । अस्थिस्रायुगतं दुष्टं तनु स्वल्पंमुखं व्रणम् ॥ ३६ ॥ गतिमन्तमजिह्वां च शोधयेद्धर्तिशोधनैः । पिच्छिलं विस्तृतं कृितं दुर्गन्धं पूतिवद्त्रणम् ॥ ३७ ॥ १ क. *त्प्रचक्षते । २ क. प्रमादनं । ०ल्पसुखं । ९ क. १न्धं शेोतव० । ३ क. ०भिधीयते ॥ वि० । ४ ख.