पृष्ठम्:हस्त्यायुर्वेदः.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। । पालकाप्यमुनेिविरचितो– . [३ शाल्मस्थाने वनं प्रस्थापयेत्तं तु न तस्मै प्रतिकारयेत् ॥ उन्मार्गगमने सूची दोषानुत्पादयेद्धहून् ॥ २४ ॥ व्यदश्चास्प जायन्ते यास्ता निगदतः शृणु ॥ शोफोऽस्य कूर्मसंस्थानो मांसं दूषयते यदा ॥ २५ ॥ मांसधावनतुल्यस्तु श्रा(स्रा)वश्वास्य प्रवर्तते ॥ श्रो(स्रोतसा मक्षरत्युग्रं श्रो(स्रोत: संदूषयेद्यदा ॥ २६ ॥ व्यापत्संजायते नेत्रे दूषिते नत्रबन्धने ॥ वेदना गद्वदत्वं च वायुच्छेदे मजायते ॥ २७ ॥ यवनिझाथतुल्पस्तु श्रा(स्रावस्तस्य प्रवर्तते । करकर्णास्यसंतप्तः शिराः संदूषयेद्यदा ॥ २८ ॥ श्रा(स्रावो माञ्जिष्ठतुल्यो वा रक्तो वाऽथ प्रवर्तते । वैकल्यं जायते चास्य प्राणैवऽपि प्रयुज्यते ॥ २९ ॥ अतोऽथै रक्षयेद्राजनुन्मार्गगमनाद्रिषक् ॥ सद्यः क्रियामथोत्सृज्य त्वाऽवस्थां च पीडितः ॥ ३० ॥ सद्यःक्षतविधानोक्तां क्रियां तस्येह कारयेत् ॥ शोफस्योपशमं दृष्टा वेदमायास्तथैव च ॥ ३१ ॥ आरभेत्स(त) ततो दन्तं पूर्वोक्तेनैव कर्मणा ॥ मन्दोष्मा जायते शोफो वेदना व तथा भवेत् ॥ ३२ ॥ सम्पक्श्रा(स्रा)वसमे सूच्याः छेदश्चैवोपजायते ॥ अत्यर्थे च यदा सूची दन्तं नागस्य कर्षति ।। ३३ ॥ तदा मुखं न लभते भज्यते वा न संशयः ॥ तत उत्सृज्य तां सूचीं पुनः.सम्यक्पवेशयेत् ॥ ३४ ॥ पूर्वेदितविधानेन व्यापत्तिर्न भवेद्यथा ॥ • • • • • • • • • • • • • • इत्युक्तो भूमिपालेन पालकाप्यस्ततोऽब्रवीत् ॥ ३६ ॥ यष्टदन्तः सदन्ताश्च अशलाकास्तथाऽपरे ॥ राजिदन्ता ग्रन्थिदन्ताः पर्वदन्तास्तथाऽपरे ॥ ३७ ॥ १ ख. सत्त्वावस्थां । २ ख. उत्सृजतां । १ क. पूर्वोद्दिष्टवि° । ४ क. ख.

  • न्तास्तु द० ।