पृष्ठम्:हस्त्यायुर्वेदः.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५ मूढगर्भापनयनाध्यायः] हस्त्यायुर्वेदः । अथ त्रयत्रिंशोऽध्यायः ।। ५३९ परापर तत्त्वज्ञ वेदवेदाङ्गपारगम् ॥ पालकाप्यं महात्मानं रोमपादः स्म पृच्छति ॥ १ ॥ कथं व्यापद्यते कुक्षौ मूढगर्भः कथं भवेत् ॥ लक्षणं मूढगर्भाया गर्भनिर्हरणं तथा ॥ २ ॥ श्र(स्र)वणं लपनं चैव वकुमर्हसिति) तद्भवान् । एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ३ ॥ विषमशय्यान्यशनैरुपौधिभिश्च क्षुधा तथा ॥ अतियानातिभाराद्वा लङ्घनपुवनादपि ॥ ४ ॥ वातमूत्रपुरीषाणां धारणादभिधातनात् ॥ उपद्रवान्मनस्तापात्कुक्षौ गर्भ विपद्यते ॥ ५ ॥ आचतुर्थाच मासाञ्च रक्त श्र(स्र)वति संनिभम् ।। ऊध्र्व संघातभूतस्तु पतेदासप्तमादपि ॥ ६ ॥ यथापर्यागतं काले फलं वृन्तात्प्रमुच्यते ॥ एवं विमुच्यते गर्भस्तन्तुमुक्तश्च जायते ॥ ७ ॥ पूर्वोक्तकारणैर्वाऽपि यस्याः कुक्षौ विपद्यते ॥ मृतगर्भा तदाऽत्यर्थं पूतिमूत्रपुरीषिणी ॥ ८ ॥ पूतिनिःश्चासिनी क्षामा नै चाऽऽहाराभिलाषिणी । दुर्मना दुर्मनस्का च गुरुमाणा च हस्तिनी ॥ ९ ॥ विपन्नमत्स्यगन्धा वा मृतगर्भति तां विदुः ॥ धर्मार्थे च पशोर्थे च मित्रार्थं च भिषग्वरः ॥ १० ॥ भैर्तुस्त्वनुमतेनास्या गर्भ शल्यं तु निर्हरेत् । सर्पिषा कल्कमिश्रेण शाल्मल्या धन्वनस्य च ॥ ११ ॥ दक्षिणं करमभ्यच् पोनिद्वारं च सर्वशः ॥ विश्वासयित्वा सर्वस्वं यन्त्रपित्वा च हस्तिनीम् ॥ १२ ॥ मवेश्य हस्तं योनौ तु गर्भमार्गेण वा हरेत् । ऋजुमार्गेण नाऽऽगच्छेत्तं तु शत्रेण निर्हरेत् ॥ छित्त्वा तथाऽऽनुपूर्येण तस्याङ्गानि पृथक् पृथक् ॥ १३ ॥ १ क. नवाहांराविभाषि° । २ क. भर्तुः स्वभिम° । ३ ख. “ल्यं मुनि° ।