पृष्ठम्:हस्त्यायुर्वेदः.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनििवरचितो ५३४ -- [१ शाख्यस्थाने वारणानां महीपाल यथावदुपलक्षयेत् ॥ यदा न क्षमते स्पष्टं विमृष्टं शब्दवत्तथा ॥ १८ ॥ विषाएो वाऽनुवृत्तो वा वारणो न लभेत्सुखम् ॥ भमस्यास्थ्नस्तु विज्ञानं-वेदना चाभिवर्धते ॥ १९ ॥ स्फालितं त्वस्थिमध्येऽन्यन्मजानुगतमेव तत् । काण्डमुतं तु यत्किंचिद्वेष्ठितं तत्प्रकीर्तितम् ॥ २० ॥ चतुर्विधानामस्थ्नां तु तेषां वक्ष्यामि लक्षणम् ॥ कपालास्थीनि भिद्यन्ते भज्पन्ते नालिकास्तथा ॥ २१ ॥ नाम्यन्ते तरुणास्थीनि स्फटन्ति रुचका नृप ॥ अत्यर्थमभिघाताच मन्यते चूण्यते तथा ॥ २२ ॥ अस्थित्रयं नृपश्रेष्ठस्तरुणास्थिसुस्वक्रिपाम् ॥ इति भङ्गाः समुद्दिष्टा यथावदनुपूर्वशः ॥ २३ ॥ चिकित्सोपक्रमस्तेषां साध्यासाध्यं च वक्ष्यते । (*अमाप्त” “ “********************** ) ॥ २४ ॥ अत ऊध्वं महाराज चिकित्सां न प्रयोजयेत् ॥ स्थानस्थश('यनं चात्र) यत्रे वाऽपि प्रतिष्ठिते ॥ २५ ॥ वारणं शीतलेनाथ जलेन परिषेचयेत् ॥ (*************************** लभते सुखम्) ॥ २६ ॥ यस्त्वपर्वणि भङ्गः स्यादसाध्यः स नु कत्र्यिते ॥ ऊध्र्व. संवत्सराद्याप्यो भङ्गो भवति हस्तिनाम् ॥ २७ ॥ च्युतप्रम्लानविश्लिष्टव्याविद्धेषु महीपते ।। सर्वेषामेव भग्रानामेतदेव चिकित्सितम् ॥ २८ ॥ कर्तव्यं च मनुष्येण नागानां हितमिच्छता ॥ एवं हि कीर्तितं सर्वं मया भमचिकित्सितम् ॥ २९ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्पस्थाने भग्रचिकित्सितं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥

  • धनुराकारमध्यस्थौ पाठौ न स्तः कपुस्तके । । धनुराकारमध्यस्थः पाठो

नास्ति खपुस्तके । १ क. मनुष्येन्द्र ।