पृष्ठम्:हस्त्यायुर्वेदः.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ भन्नचिकित्सिताध्यायः] हस्त्यायुर्वेदः । अस्थ्नां तेषां प्रवक्ष्यामि यथावद्भङ्गकारणम् । पतने ह्यवपाते च समरेऽभिहतस्य च ।। ३ ।। स्वलनशनावेधैः पतनैरपि दन्तिनाम् । । / नागानामभिघातैर्वा भज्यम्तेऽस्थीनि सर्वशः ॥ ४ ॥ तेषां नामापि वक्ष्यामि भशानां मनुजाधिप ।। निष्पिष्टमथ विश्लिष्टं तथा मक्षिप्तमेव च ॥ ५ ॥ तिर्पक्क्षिप्तमतिक्षिप्त मुक्तकाण्डं च यद्भवेत् ॥ स्थापितं जर्जरीभूतं चूर्णितं मथितं च्युतम् ॥ ६ ॥ मज्जानुजातं मथितं भमं चैव तथा स्मृतम् । त्रयोदशविधं त्वेवं भयं भवति दन्तिनाम् ॥ ७ ॥ यथावदनुपूर्वण कीर्तितं ते मया नृप ॥ पालकाप्यवचः श्रुत्वा ततः प्रोवाच पार्थिवः ॥ ८ ॥ तत्र यच्छिन्नभिन्नं च स्फोटितं मोटितं तथा । त्वङमांसममृतं चैव स्थानन्नष्टं च यद्भवेत् ॥ ९ ॥ कथं तदभिजानीयात्काण्डमुक्तं तथैव च । एतन्मे पृच्छतः सर्वे भगवन्वतुमर्हसि ॥ १० ॥ तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥ नातिमात्रं भवेच्छोफो वेदना च न शाम्पति ॥ ११ ॥ अस्थिस्थाने स्थितं दृष्टा निष्पिष्ट इति तं विदुः । पः संधिदेशे श्वयथुर्यदा वा स्यात्रुजाऽन्वितः ॥ १२ ॥ एभिर्लिखैर्महाराज विद्याद्विलिष्टमेव तु ॥ निवृत्तो विषमः संधिगत्रदशे पथा भवेत् ॥ १३ ॥ वेदना वर्धते वाऽपि तथा हुत्क्षिप्तमादिशेत् । यद्वै पार्श्वगतं स्थानातिर्यक्क्षतमिति स्मृतम् ॥ १४ ॥ अतिक्रान्तं भवेत्संधिं तद्वा निक्षिप्तमुच्यते ॥ वेदना शूनभावश्च केवलं विच्युते सदा ॥ १५ ॥ मथितं पृथुलं विद्धि चूर्णितं तु महारुजम् । स्फालितं स्फटितं नाम जर्जरं जर्जरीकृतम् ॥ १६ ॥ वेदना परिशोषश्च भृशमस्योपजायते ॥ सशल्यमिव चाऽऽध्मातं सरुजं जर्जरं तु यत् ॥ १७ ॥ १ क. ख. "त्क्षिप्यमा° । ५३३