पृष्ठम्:हस्त्यायुर्वेदः.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९ प्रदेशज्ञानाध्यायः ] हस्त्यायुर्वेदः । चत्वारिंशश्च पचैव प्रदेशाः परिकीर्तिताः । संख्या कुञ्जराणां तु कापमध्ये समाश्रिताः ॥ अपरपोर्जघनम् । जघनस्याधस्तात्पाश्र्वयोरधस्तात्करीषपस्रावाद्धः कला भागौ । कलाभागयोरथस्ताद्धहिःपाश्चै जघनस्य पश्वात्पिण्डिके । पिण्डिकयो रधस्तान्मण्डूक्यैौ । मण्डूक्योरधस्तात्संदानभागौ । संदानभागपारधस्तात्संत्कु टिके। सैत्कुटिकासंधिपार्श्वयोश्चत्वारो ग्रन्थयः । सत्कुटिकयोरधस्तात्पाणीं । पाषण्यरधस्तात्तलप्रोहौ तयोरभ्यन्तरपाश्धं कचाः । बहिःपाश्र्च राजयः । तलप्रो हयोरधस्तात्तलकणैौ । ततस्तलौ । समन्ततस्त लसंधी । संध्योझपष्ठीव्पौ । अष्ठीव्याधस्ताद्वक्त्रसक्थिनी । अनन्तरं वक्त्रसक्भोरधस्तादपरान्तरे । संदान भागयोरधस्तात्कूमै । कूर्मयोरधस्ताद्दशनकर्म । दश नखकूर्माः । दशा नख शिखाः । तेषां पुरो नस्वादिविभागो गात्रनखवज्ज्ञेयः । नस्वान्तराण्यष्टाविति । तत्र लोकः चतुःसप्ततिरित्येते प्रदेशाः परिसंख्पया । आतलात्प्रभृति प्रोक्ता जघनात्प्रभृति प्रभो ।। मेहूस्य करीषमस्रावाधस्तादण्डकोशः । अण्डकोशस्य पार्श्वयोर्वङ्क्षणौ । वङ्क्षणपार्श्वयोर्मुष्कौ । अण्डकोशस्योपरि कोशसंधिः । मेहर्नस्तलः । तत्सं धिनिर्गमात्प्रत्यूहः । प्रत्यूहस्याग्रे ककुदम् । ककुदान्मेढ़ाग्रम् । तस्य मध्ये श्रो(स्रो)त इति ॥ तत्र श्लष्कः एवं मेट्राश्रिताः शात्रे प्रदेशा दन्तिनामिह । संख्यपैकादश मोक्ता यथावदनुपूर्वशः । लाङ्गलस्प सेर्वत्र ग्रन्थयः । लाङ्गलमध्ये वर्तकः । अभ्यन्तरे किली । तस्या बहिः संवर्तकाः । अधस्तात्किल्याः संवालः । तस्याधस्ताद्वालपुष्करम् । वाल पुष्कराधस्तात्पर्क, इति ॥ तत्र लाका सप्तते संख्यया सर्वे ये लाङ्गलसमाश्रितः। प्रदेशा हस्तिनां प्रोक्ता गजशास्रविशारदैः ॥ हस्तास्पदन्तवदनदक्शिरःकर्णकंधराः । उरोहृदयगात्राङ्गमपरामेद्वबालधिः ॥ १ क. *त्सकुटि” । २ क. सकुटि । ३ क. सकुटेि' । ४ क. "नस्ता नलः । १ क. सर्वस्य । ६ क. ये न लाङ्गलमा° ।