पृष्ठम्:हस्त्यायुर्वेदः.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९ प्रदेशानाध्यायः] इत्यायुर्वेदः। चतुर्विशतिरित्युक्ताः शिरसः क्रमशो मया । यथावदनुपूर्वेण प्रदेशा हस्तिनामिह ॥ कर्णयोः कर्णाग्रे कर्णपर्वतौ । कर्णयोरधस्तात्माङ्गणे कर्णमध्ययोः । तयो पर्यन्तौ मध्यकणै। कर्णयोरधस्तात्कर्णपाली। कर्णयोर्बहिर्बहिष्कणै, अन्तरेऽ कर्णावर्तपाश्र्वपार्श्वयोः कर्णपकौ । अधस्तात्कर्णसंधी । ततः श्रोत्रे । श्रोत्रपा श्र्वयोर्वीतालके कर्णचूलिके कर्णपिप्पल्यावुद्यानवत्पादुद्यातौ चेति ॥ लाकः एते कर्णाश्रिताः शात्रे संख्यया दन्तिनामिह । त्रिंशत्पदेशा व्याख्याता यथावदनुपूर्वशः । ग्रीवायां ग्रीवापृष्ठम् । तस्याधस्ताद्वलः । ततः कण्ठपाश्र्वयोर्धमन्यौ । गल पार्श्वयोर्दूरौ । दुर्दूरयोरुपरि मन्ये । मन्ययोरुपरि ('गुहे । गुहाभ्यां समुद्रौ । समुद्रपाश्र्वयोः पिण्डिके । पिण्डिकयोरुपरि गुहाभागौ । तयोर्पतस्थाने) । यत स्थानपार्श्वयोः पाणिघातौ । पाणिघातयोरुपर्युत्सङ्गौ । उरसङ्गयोरुपरि स्कन्धः । स्कन्धमध्ये पणवकश्चेति ॥ त्रयोविंशतिरित्येते संख्यया परिकीर्तिताः । ीवाप्रदेशा नागानां क्रमशः शास्त्रनिश्चिताः ॥ उरसि ग्रीवासंध्याश्रितोऽन्तर्मणिः । अन्तर्भणेरधस्तादुरोमणिः । उरोमणि पार्श्वयोगर्गात्रसंध्याश्रितौ विक्षोभौ । विक्षोभयोर्मध्य आवर्तमणिः । आवर्तमणेः प्रभृति हृदयम् । हृदयादुरः । ततः संधिः । उरोगात्रमध्ये चतुरक्षान्तरमिति । प्रदेशाः सप्त संख्याता उरसस्तु नृपोत्तम । हृदयस्थानप्रदेशान्प्रवक्ष्याम्यत उत्तरम् ॥ हृदय(ये) स्तनौ । (पं) चूचुकयोर्मध्ये क्षीरिके इति ॥ तत्र श्लोकः हृदयस्थानसह (?) ते व्यक्ता मे जठराश्रयाः । दश प्रदेशा ठयाख्याता दन्तिनामिह संख्यया ।। गात्रयोरासनपाश्र्वयोः प्रतीकासौ । प्रतीकासयोरधस्तादंसौ । अंसाधस्तात् त्र्यसैौ । मत्यंसाधस्ताद्धाडू । बाहुमध्ययोरुपरि अत्यंसफलकौ । अंसफलकाध f धनुचिह्नगतं कपुस्तके न ।