पृष्ठम्:हस्त्यायुर्वेदः.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२६ इत्पेते त्वभिविज्ञेयाः प्रदेशा दन्तयोर्दश । यथावदनुपूर्वेण शिक्षाविद्भिरुदाहृताः ॥ बहिर्मुखे दन्तान्तरे प्रतिमानम् । तस्य पार्श्वयोः शम्बुके । प्रतिमानस्पोपरि मध्ये मुस्वस्य वाहित्थम् । तस्य पार्श्वयोर्विलागौ । विलागपोरुपरि कर्कटम ध्ययोः कटस्रोतसी । कटस्रोतसोरधस्तात्कटप्रस्रावौ । कटप्रस्रावयोरधस्ता द्रण्डौ । गण्डयोरधस्तात्कपोलौ । कपोलयोर्मध्ये रोमकूचै । रोमकूर्चपोरध स्ताद्धनू । हन्वोरधस्तात्सगदे । तयोः संधिः सगदासंधिः । एतयोरन्तरं सग दान्तरम् । कटयोः पार्श्वतो घाटे । घाटयोरुपरि कटसंधी । कटसंध्याश्रितौ श्रवणाविति ॥ त्रयस्त्रिशदिह प्रोक्ताः प्रदेशा मुखमाश्रिताः ॥ प्रतिमानप्रभृत्येते क्रमशः शास्रनिश्चिताः ॥ चक्षुषोरक्षिगुहे । अक्ष्णोरुपर्यक्षिकूटौ । अक्ष्णोंरधस्तादक्षिस्रावौ । अक्ष्णोः पूर्वभागयोः कनीनिके । पश्चाद्भागयोरपाङ्गौ । पक्ष्ममण्डले वत्र्ममण्डले शुकुमण्डले कृष्णमण्डले दृष्टिमण्डले पक्ष्मवत्र्मसंधी त्र्मशुक्रुसंधी शुङ्ककृष्ण सैधी कृष्णदृष्टिसंधी कनीनिकासंधी चेति ॥ तत्र श्लोकः प्रदेशा नेत्रयोरेते द्वात्रिंशदिह कीर्तिताः । दृष्टिमण्डलसंयुक्ता व्यक्ता द्वादश संधिजाः । शिरसि वाहित्थम् । वाहित्थस्योपरि कुम्भौ । एतस्याभ्यन्तरे कुम्भान्त रम् । एतस्याग्रे कुम्भस्योपरि बिम्बकौ । बिम्बकपार्श्वयोः पाकले । अक्षिकू टोपरीषीके । इषीकयोर्मध्य इषीकान्तरादूध् इषीकाग्रे । इषीकाग्रयोर्बहिः परीषीकाग्रमध्ये तिर्यगायतोऽवैग्रहः । अवग्रहस्योपरि पुरस्कारः। पुरस्कारस्यो परि निर्याणम् । तयोरन्तर उक्ता तिर्यगायताऽवग्रहवर्तिः । अवग्रहवत्र्या उपरि मस्तकौ । मस्तकयोर्मध्ये विदुः । मस्तकयोर्बहिःपार्श्वयोर्विताने निर्या णयोः पश्चात्पार्श्वीपेः कूर्ममस्तकसंधी केशाश्चेति ॥ सत्र श्लोकः--- १ क. ख. प्रदेशे । २ क. ख. "वगाहः । ३ क. स. विदू ।