पृष्ठम्:हस्त्यायुर्वेदः.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ प्रदेशज्ञानाध्यायः ] ' हस्त्यायुर्वेदः । अथैकोनत्रिंशोऽध्यायः । अथातः प्रदेशज्ञानं नामाध्यापं व्याख्यास्यामः । इति ह स्माऽऽह भगवान्पालकाप्यः । इह खलु शरीरं मूलम् । सन्मूलान्य ङ्गप्रत्यङ्गानि लोकप्रसिद्धानि । पश्चदश प्रदेशाः प्रत्यङ्गानोत्पनर्थान्तरम् । तत्र प्रदेशानामग्रेऽङ्गुलिः | अङ्गुल्यभ्यन्तरे वत् । ततः स्रोतसी । एतयोर न्तरं श्रोस्रोतोन्तरम् । तस्मात्पुष्करम् । पुष्करे राजिः । (तदुपर्यङ्गु लम् । ) अङ्गल्या उपरि गण्डूषः । ततोऽग्रहस्तः । गण्डूषपाश्र्वयोः श्रीः । एत योरभ्पन्तरं गण्डूषा । तदुपरि बहिष्कर्षः । एतस्य दक्षिणपाश्र्च आकर्षः । वामपाश्र्ध परिकर्पः। पृष्ठत उपकर्षः । तस्यैवाभ्यन्तर उत्कर्षः । एतेः प्रदेशैः सम न्वितोऽग्रहस्तः । बहिष्कर्षादुपरि मध्ये हस्तस्य संभोगः । एतस्य पार्धपोई स्तबाहू । तयोश्चाभ्यन्तरं संभोगान्तरम् । संभोगस्योपरि त्रिराजिः । त्रिराजेरु परि पर्व । तस्योपरि स्थूलहस्तः । एतस्याभ्यन्तरे पलिहस्तः । पलिहस्तस्यो परि पृथुहस्तः । पृथुहस्तस्याभ्यन्तरेऽतिहस्तः । अतिहस्तस्याभ्यन्तरे राजयः । सर्वगता वलयश्चेति । तत्र श्लक अङ्गुलीप्रभृति प्रोक्ताः क्रमेण द्विरदस्य ते । अष्टौ च विंशतिश्चैव प्रदेशा हस्तमाश्रिताः ॥ आस्ये कृष्णान्त()म् । ततस्तालु । तालुमध्ये श्रो(स्रो)तसी । अतो मध्ये तालुवंशः । ततो जिह्वाभ्यन्तरे भक्षणार्थ दशनाः षोडशाधस्ताचोपरिष्टाश्च । तेषु चतस्रो दंष्ट्राः । तत ओष्ठः । तस्याभ्यन्तरे वत्र्मनी । तत ओष्ठमस्राव ओष्ठपा श्र्धयोः । आष्ठबाहू अधस्तात् । ओष्ठसंधी ओष्ठसंध्योः । ततः सृकिणी। ओष्ठाधी रोमकूर्च इति ॥ तत्र लोक कृष्णान्तादय इत्येते क्रमशः परिकीर्तिताः । प्रदेशा मुखसंबद्धास्त्रिशदिह तु संख्यया ।। दन्तयोर्दन्ताग्रे दन्तमध्ये दन्तमूले । दन्तपोरुपरि दन्तवेष्टौ । एतयोरु परि प्रवेष्टाविति । + धनुश्चिह्नान्तर्गतः कपुस्तके नास्ति । १ क. नाम व्या° । २ क. पुष्करमध्ये ।