पृष्ठम्:हस्त्यायुर्वेदः.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- [ ६ शाश्यस्थाने हरिद्रायमक्षिष्ठामपुभाटफलेन तु । श्लक्ष्णेहिंङ्गलकागारधूमसैन्धवसंयुतैः ॥ १४ ॥ प्रपौण्डरीकरोभत्वक्सारिवोत्पलकन्दुकैः ॥ नवनीतयुतैः क्षीरैः क्षालितं लेपयेत्पुनः ॥ १५ ॥ ततो म त्रिरुक्त्वाऽस्य पुनः कुर्याचिकित्सितम् ॥ शीतावगाहक्षीराज्यपानमृछेपनैः शुभैः ॥ १६ ॥ उत्तरे हिमवत्पार्थे पर्वतो गन्धमादनः ।। तस्य कुक्षौ निवसति कुमारी पुण्यलक्षणा ॥ १७ ॥ ऐणेयचर्मवसना सर्पमेस्वलमण्डिता ।। गोनसांश्चोत्तरां कृत्वा भुङ्के नानाविधं विषम् ॥ १८ ॥ सा तत्र नित्यं लपति विद्या जाङ्गल्यहं शुभा । विषाण्यहं दोषयामि निहन्मि विषकुम्भके ॥ १९ ॥ मया मन्नपदाः मृष्टा पैर्दष्टः साध्यते गजः ॥ सं मां स्मरतु मम्रांश्च दष्टो यो लूतया कचित् ॥ २० ॥ ‘इरिलि मिरिलि द्रमिडि द्रामिडि गुल्मगुल्माशिरोवेष्टानि अङ्गानामङ्गना टानि अङ्गानां दंशानाशने यक्षराक्षसपिशाच मिरिलि स्वाहा' । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीपे शल्पस्थाने षहिंशैो लूताध्यायः ॥ २६ ॥ अथ सप्तविंशोऽध्यायः ।। आङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति । चरन्तस्तेऽपि बहवो विषकीटा नराधिप ॥ १ ॥ तस्मिन्मिथुनकाले तु मुदिता जन्तवः स्मृताः ॥ सृजन्ति शुक्रे मूत्रं वा पुरीषं स्वेदमेव वा ॥ २ ॥ हस्तिनां यदि चेत्काये पतेयुर्मनुजाधिप ।। स्फोटास्तत्रोपजायन्ते तस्मिन्देशे महारुजाः ॥ ३ ॥ अमिदग्धा इवाऽऽभान्ति दाहश्चान्तः मजायते ॥ इस्तेन जिघ्रत्यसकृछालां च विभुजत्यपि ॥ ४ ॥ १ क. या । ख. सा । २ क. "शेो भूता° ।