पृष्ठम्:हस्त्यायुर्वेदः.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्य ऐलां मधुरसां चैव क्ष्णपिष्टानि कारपेत् ॥ तेनास्य व्रणमालिम्पेद्धृतातेन पुनः पुनः ॥ १४ ॥ दाहो निवर्तते तेन वेदना चोपशाम्यति ॥ लभते सौमनस्यं च पवसं चाभिनन्दति ॥ १५ ॥ रोधं च माषपण व हरिद्रे चाप्युभे तथा ॥ क्षीरिकायाः शतावर्याः पयसा च घृतं पचेत् ॥ १६ ॥ अथवा रोपणं तैलं विपचेतेन रोपयेत् ॥ १७ ॥ मांसी समङ्गाममृतां माषपणीं तथैव च । मधुकं च समक्षिष्ठं कुशमूलं च पेषपेत् ॥ १८ ॥ एतत्सर्वं समाहृत्य क्षीरेण सह योजपेत् ॥ ततैलं पाचयेद्धीरो यथायोगं यथासुखम् ॥ १९ ॥ तेनास्य त्रणमभ्यङ्गान्नित्यमेवमतन्द्रितः ॥ क्षिपं प्ररोहते तेन अमदग्धं समन्ततः ॥ २० ॥ तथैव कारपेचूर्ण रोपणं मनुजाधिप । पत्रं समङ्गा तगरं जीवकर्षभकावुभौ ॥ २१ ॥ मधुकं धातकीपुष्पं रोधं सैर्जरसं तथा । बलामतिविषां चैव सूक्ष्मचूर्णानि कारयेत् ॥ २२ ॥ प्रतिचूर्णनमेवं स्यादिदमन्यख रोपणम् ।। पिष्टानय कृष्णांश्च तिलांस्तु मधुना सह ॥ घृतेन मिश्रयित्वाऽथ रोपणं वा प्रलेपनम् ॥ २३ ॥ सृप्ररुढव्रणं नागं प्रसूनत्वक्तनूरुहम् ॥ दोषप्रशमनार्थाय घृतेन सह भोजपेत् ॥ २४ ॥ इत्पङ्गराजो विधिवद्धस्तिशास्रसमाश्रयम् ॥ श्रावितं(तः) पालकाप्येन अमिदग्धचिकित्सितम् ॥ २५ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने वृद्धोपदेशे तृतीये शल्यस्था नेऽमिदग्धविकित्सितं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥ १ ख. शालां । २ ख. सर्वर० ।