पृष्ठम्:हस्त्यायुर्वेदः.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१६ परीक्ष्यकारिणं शूरं बलिनं शास्त्रकोविदम् ।। यशस्विनमलुब्धं च जितक्रोधं जितक्रमम् ।। वैद्य नियोजयेद्राजा प्रतिकर्म हस्तिनाम् ॥ ५४ ॥ इति । तत्र श्लोका:(कः) इति भिषगंमुशिष्य बुद्धी शुभमशुभं च ततः शुभं च कुर्यात् ॥ विपुलबलयशोर्थकीर्तिहेतोर्विपुलगुणार्थं गर्ज परीक्ष्य ॥ ५५ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने मर्मविद्धो नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ अथ चतुर्विंशोऽध्यायः । भङ्गरराजो महाप्राज्ञः कुबेरसमविक्रमः । हस्तशालासमासीनं पालकाप्यं स्म पृच्छति ॥ १ ॥ भगवन्यपत्वया प्रोक्तं रोगज्ञानं सलक्षणम् ॥ तत्र मे संशपः कश्चित्तन्मे शंसितुमर्हसि ॥ २ ॥ शुद्धश्लेष्मसमुत्पत्तिः शुद्धपाकल आदितः ॥ प्राग्भागोष्णः कथं विप्र पश्चाद्भागेन शीतलः ।। ३ ।। न चोष्णलक्षणं चेति हस्तिनां जायते ज्वरः । निदानलक्षणो ह्येष यस्त्वयोक्तो महामुने ॥ ४ ॥ कथं साध्यश्च बालोऽयं कूटश्चायं न सिध्यति । समानदोषैर्विप्रेन्द्र तावुभावपि कीर्तिती ॥ ५ ॥ पकलः पुण्डरीकश्च वातपित्तकृतावुभौ ।। विकारेषु विरुध्येते चिकित्सायां तथैव च ॥ ६ ॥ शनैः क्षीपेत वा केन हेतुना व मृदुग्रहः । कथं च भूतसंसृष्टो दृष्टः कुकुटपाकलः ॥ ७ ॥ ६वाश्च केचिदिच्छन्ति दोषतश्चापरे जनाः । एकाङ्गग्रहसंसस्तु पाकलो मुनिसत्तम ॥ ८ ॥ दृश्यते भूतसंसृष्टो दोषतश्च न दृश्यते । स कृशत्वेन संयोज्यः कथं तीक्ष्णोदरानलः ॥ ९ ॥