पृष्ठम्:हस्त्यायुर्वेदः.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्रायुमर्मण्षभिहतः स्रायुसंश्र(स्र)धपाद्भज ॥ विश्लिष्टसंधिर्भवति स्रायुर्देहनिबन्धनः ॥ ३९ ॥ कोष्ठमर्मण्यभिहतः करीषस्रावपीडितः ।। महाक्षयाभिभूतस्तु प्राणांस्त्यजति वारणः ।ः ४० ॥ संधिमर्माभिघाताच चेष्टावैगुण्यमुत्तमाः । प्राप्नुयाद्वारणः क्षिमं मरणं वातपीडितः ॥ ४१ ॥ श्रो(स्रोतोमर्माभिघाताच स्वगुणैः स्रोतसां गजः ॥ विमुक्तस्त्यजति प्राणान्विगुणो वाऽपि जीवति ॥ ४२ ॥ दोषाशयाभिघाताच क्षीणपित्तकफानिलः ।। प्राणांस्त्यजति मातङ्गो दोषमर्मसु ताडितः ॥ ४३ ॥ रक्षणं मर्मणां नित्यं तस्मात्कार्य विचक्षणैः ।। शस्रकर्मविधिनैश्च कार्य शस्रावचारणम् ॥ ४४ ॥ असिद्धिरल्पसिद्धिर्वा हिंसितेष्वपि कर्मसु ।। विपत्तिः श्रेयसी वाऽपि सिद्धिर्यादृच्छिकी भवेत् ॥ ४५ ॥ अस्थिस्रापूपपन्ना ये गम्भीराश्चैव सर्वेश । शिरामर्मगता ये च न च्छेद्या ये च संधिषु ।। ४६ ॥ स्रायुजाले न कार्ये च तज्झैः शस्रावचारणम् । अनुलोममृजुगतिं त्वचि सम्यक्समाहितम् ॥ ४७ ॥ श्वयथूनां विधानां कार्य शस्राक्चारणम् । पथा व्यापद्यते नागः स्वयोगाच्छस्रकर्मणाम् ॥ ४८ ॥ न तथा म्रियते दोषैः प्रवृद्वैरपि वारणः ॥ शस्रकर्मणि निर्युक्त सेवनं सर्पिषा हितम् ॥ ४९ ॥ पानं च सर्पिषः श्रेष्ठं त्रिग्धं भोजनमेव च । शस्रकर्मणि निर्युक्त हवनं शान्तिकर्म च ॥ ५० ॥ वारणस्य तु कर्तव्यं यथोक्तं यज्ञकर्मणि ॥ तस्मात्सर्वमहाराणां विद्धमादि प्रकीत्यैते ।। ५१ ॥ अवांच्छन्नावसृष्टानि त्ववकृत्तं तथैव च । शृष्टदग्धे च राजेन्द्र पश्चा(न्य)द्रणसंज्ञितम् ॥ ५२ ।। तस्माद्विद्धमिति प्राहुः शात्रतत्त्वार्थकोविदाः । तस्मात्मपेोगकुशलं लघुहस्तं जितेन्द्रियम् ॥ ५३ ॥ १ क. ०धिचैव का• । २ क. "ज्ञतत्रण ।