पृष्ठम्:हस्त्यायुर्वेदः.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ पालकाप्यधुनिविरचितो- [ १ इत्यत्वाने-- यावच्छल्यनिरुस्नु वापुस्तिष्ठति मर्मणि ॥ तावत्सशल्यमाणेषु स जीवति मृतोऽन्यथा ॥ ३४ ॥ अथ वैगुण्यकारीणि अपस्कारस्तथैव च । विज्ञाय तु गुहाभागौ क्षपभागं ततः परम् ॥ २५ ॥ अस्मे चैव.विभागे च करस्य श्रो(स्रोतसी तथा । प्रतिमानं गुहाभागौ चत्वारो ग्रन्थयस्तथा ॥ २६ ॥ तथाऽन्तरपरे स्यातां प्रवक्ष्याम्यत उत्तरप्र । • करश्च प्रत्यगंसौ च प्रतीकासौ तथैव च ॥ २७ ॥ नेत्रे चैव महीपाल मुनिभिः परिकीर्तिते । ग्रीवा चान्तरना च वाहित्थं च नराधिप ॥ २८ ॥ पेचकश्च विसाने च वैगुण्यकरसंग्रहः । एतान्येव चतुत्रिंशत्प्रोक्तानि मनुजाधिप ।। २९ ।। स्थिरा यतः सौम्यगुणाः स्थिरत्वाञ्च न मृत्युदाः ।। तस्मात्तद्वैगुण्यकरं मृत्युदं शपेन्न तम् ।। ३० ।। इति सप्तोत्तरं प्रोक्तं शतं ते मर्मणां मया ॥ धैर्य वीर्य बलं सत्त्वं संघातः पौरुषा गुणाः ।। ३१ ।। एतेष्वधिष्ठिताः सर्वे गुणा मर्मसु हस्तिनाम् । यस्मात्तस्मात्क्षते तत्र प्राणांस्त्यजति वारण ।। ३२ ।। मारणादुच्यते मर्म नैरुतैः शास्त्रनिश्चपात् ।। तथैवाष्टविधं प्राहुः संख्या मनुजाधिप ॥ ३३ ॥ शिराममस्थिमर्माश्च(?) धमनीमर्म चापरम् ।। स्रायुमर्म च विज्ञेयं कोष्ठमर्म तथैव च ॥ ३४ ।। संधिमर्म च विज्ञेयं स्रोतोमर्म तथैव च । दोषमर्म च विज्ञेयं वक्ष्यन्ते तत्र हेतवः ।। ३५ ।। शिरामर्मण्यभिहतो रक्तश्रा(स्रावाद्रजोऽधिकः ॥ क्षिमं वियुज्यते प्राणैस्तस्मात्तदभिरक्षपेत् ॥ ३६ ॥ अस्थिमर्मण्यभिहतः शुक्रमज्जापरिश्र(स्रवात् । परित्जेयद्वजः प्राणानस्थिधातुक्षयात्ततः ॥ ३७ ॥ हिंस्यते धमनीमर्म यदा नागस्य मर्मसु ॥ तदाऽप्यगुणनिश्रा(स्रावाद्भजस्त्यजति जीवितम् ॥ ३८ ॥ १ क. ख. मृतेऽन्य° । २ क. ख. शिरोम° ।