पृष्ठम्:हस्त्यायुर्वेदः.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मर्मविद्धाध्यायः ] हंस्यायुर्वेदः । तथा सशल्पप्राणं च वायव्यं कथ्यते बुधैः ॥ सौम्यं वैगुण्यकरणमिति पूतगुणाश्रयः ॥ १० ॥ सद्यःप्राणहराण्यादौ तत्र वक्ष्यामि पार्थिव ॥ गुदोऽण्डकोशो हृदयं मेण्ढू पणवकस्तथा ॥ ११ ॥ मन्याभागे विवेकश्च गैलो नाभिस्तथैव च ॥ मृदुकुक्षी सनिष्कोशौ कक्षाभागी तथा तलाः ॥ १२ ॥ वङ्क्षणौ मुष्कभागौ च तालु जिह्वा स्तनान्तरम् । रन्ध्रौ कुम्भं तथा वक्षः कण्ठश्चोदरमेव च ॥ १३ ॥• करीषास्राव इत्येवं सद्यःप्राणहराणि तु ॥ चतुत्रिशतु मर्माणि निर्दिष्टानि मनीषिभिः ॥ १४ ॥ अभिजीवाश्रयो यस्माज्जीवश्चाग्रिसमाश्रयः ॥ तस्मात्तत्र क्षते क्षिपं प्राणांस्त्यजति वारणः ॥ १५ ॥ कालान्तरमाणहराण्यथ वक्ष्यामि तच्छूणु ।। प्रोहे सकुटिके यस्थिसंदानौ तलसंधय ॥ १६ ॥ विक्षोभौ कूर्मभागौ च उरःसंधिरुरस्तथा ॥ पलिहस्तौ यतस्थाने अन्तबडू तथैव च ॥ १७ ॥ कालान्तरविनाशीनि याप्याभागौ च पार्थिव ।। निपणे चैव कुम्भे च स्रोतसः कुम्भयोरपि ॥ १८ ॥ क्षीरिके च महीपाल पुरस्कारे तथैव च ॥ पञ्चविंशतिरेतानि ज्ञेयानि परिसंख्यया ॥ १९ ॥ क्रमाद्यावत्क्षपयति साम्यस्तेजोगुणैर्गुणात् ॥ पस्मात्क्रमेण म्रियते कालमाणहरं ततः ॥ २० ॥ तत्रोपद्रवजातं च रोमस्थमभिलक्षयेत् ॥ ततः सशल्यप्राणानि प्रवक्ष्याम्यनुपूर्वशः ॥ २१ ॥ निर्याणचैव कुक्षी च स्रोतसौ कर्णयोस्तथा । कुम्भश्चैव महीपाल पुरस्कारोऽथ चूचुके ॥ २२ ॥ स्यातामक्षिगुहे चैव बिदुलं वदतां वर । विद्यात्सशल्यप्राणानि मणीह चतुर्दश ॥ २३ ॥

  • भूत इति स्यात् ॥

१ क. गणना० ॥ ५११