पृष्ठम्:हस्त्यायुर्वेदः.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१२ पालकाप्यमुििवरचितो तस्मातु कुशलो वैद्यः श्रुतवान्कालदेशवित् ॥ परीक्ष्यकारी शूरश्च जितक्रोधो जितेन्द्रियः ॥ ६८ ॥ अप्रमत्तश्च दक्षश्च यशसचैव रक्षिता ॥ वैद्य एवंविधो राजम भमुह्यति कर्मसु ॥ ६९ ॥ एष ते पृथिवीपाल यथावद्नुपूर्वशः ॥ मर्मणामिह सर्वेषामशेषेण विनिश्चयः ॥ ७० ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने सृतीपे शल्पस्थाने मर्मविद्धो नाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥ अथ त्रयोविंशोऽध्यायः ।। अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ भगवन्कति कामानां नृपाणां विजिगीषताम् ॥ १ ॥ प्रायशो युध्यमानानां वारणेषु धुवो जयः ॥ संग्रामे युध्यमानानां कायवेध्यं पृथग्विधम् ॥२॥ शास्राकृतिविशेवैश्च तथा छेद्ये च जापते ॥ शस्त्रकर्मणि चाप्येवं दन्तैर्वा प्रतिहस्तिनाम् ॥ ३ ॥ तत्राल्पोऽथ कथं कश्चिद्रणः प्राणान्तिको भवेत् ॥ अथ येन प्रबाधन्ते प्राणास्तद्वकुमर्हसि ॥ ४ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । । स्वभावात्सर्वसत्त्वानां प्राणा देहसमाश्रयाः ॥ ५ ॥ देहमाणेष्वथाऽऽपन्नाः प्रणा मर्माश्रपास्तथा ॥ तेजोनिलगुणैः सार्ध पुरुषो मर्मसंश्रयः ॥ ६ ॥ तस्मान्ममश्रपं विद्यात्प्राणबाधाकरं व्रणम् ॥ मर्म वाप्यभिविज्ञेयं प्रतिभागाचतुर्विधम् ॥ ७ ॥ सद्यः प्राणहरं चैव तथा कालान्तरेण च । तथा सशल्यपाणं च वैगुण्यकरमेव च ॥ ८ ॥ तत्रानलगुणैर्युक्तं सद्यः प्राणहरं भवेत् ॥ कालान्तरमाणहरं सौम्याप्रेयमुदाहृतम् ॥ ९ ॥ १ क. शूरस्य । २ क. ख. प्राणदे” । ३ क. प्राणम” ।