पृष्ठम्:हस्त्यायुर्वेदः.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ मर्मविद्धाध्यायः ] हस्त्यायुर्वेदः । गजानां न हयानां च मानुषाणां तथैव च । छेदं तु विविधं कार्य वारणस्य विजानता ॥ ५५ ॥ वृद्धिपत्रेण तीक्ष्णेन मण्डलाग्रेण वा पुनः । आसनेऽथ कलाभागे कण्ठे वंशे च गण्डयोः । वृत्तच्छेद्य तु कर्तव्यं भोगेष्वेतेषु दन्तिनाम् ॥ ५६ ॥ पञ्चाङ्गलपदं कुर्यात्सप्ताङ्गलमथापि वा ॥ नवाङ्गुलं वा नागस्य शूस्रकर्म विधीयते ॥ ५७ ॥ एतत्सर्वं विनिश्चित्य च्छेदं नागस्य कारयेत् ।। वासितेनैव शत्रेण कर्म कुर्याद्विचक्षणः ॥ ५८ ॥ वेध्यं व्रीहिमुखेनैव मण्डलाग्रेण लेखनम् ॥ विश्रा(स्रावणं कुठारेण वत्सदन्तेन च स्मृतम् ॥ ५९ ॥ सीवनं द्विविधं विद्याद्रुणवद्ग्रन्थैिमत्त्वपि ॥ स्थिरेषु त्ववकाशेषु ग्रन्थिसीवनमिष्यते ॥ ६० ॥ मांसलेष्वेवकाशेषु चलेषु मृदुसंधिषु ॥ गुणसीव्यं च कर्तव्यं वारणस्य विजानता ॥ ६१ ॥ सीवने तु भवेत्सूची सूक्ष्मा त्वष्टाङ्गुलायता ॥ नागदन्तकसंस्थाना श्लक्ष्णा वै सुसमाहिता ।। ६२ ।। कैधरावग्रहा भागे कुक्षौ पक्षेषु संधिषु ॥ नागदन्तकभूच्या वै सीवनं सम्यगिष्यते ॥ ६३ ॥ संग्रामे हस्तियुद्धे वा विकृतस्य तु हस्तिनः ॥ सद्यःक्षते महाराज सीवनं तु विधीयते ॥ ६४ ॥ पक्करेष्ववकाशेषु परिश्रा(स्रा)विषु दन्तिनाम् । संधानान्येव कॉर्याणि सीव्यं तत्र न कारयेत् ॥ ६५ ॥ शतं सप्त च मर्माणि भागाभागेषु हस्तिनाम् ।। प्रोक्तानि पालकाप्येन अङ्गराजाय पृच्छते ॥ ६६ ॥ व्रणकैर्मणि नागस्य अभ्यङ्गः पूज्यते सदा ॥ स्रोहपानं च नागानां न्निग्धमेव च भोजनम् ॥ ६७ ॥ १ क. ख. न गेष्वेतेषु । २ ख. च्छेद्य । ३ क. ख. तत्सदन्तेन । ४ क•

  • न्थिवत्त्व" । ख ०न्थिभत्त्वपि । ९ क. ०ष्वककालेषु । ६ क. सीवनं । ७ क. ख.

कर्माणि । ८ क, ख. ०कर्माणि ।