पृष्ठम्:हस्त्यायुर्वेदः.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१० पालकाप्यमुनिविरचितो [ ३ शल्यस्थाने-- नाम्रा आलिङ्गितं नाम तदपि प्राणनाशनम् ॥ अथास्य मोहमध्ये तु मर्मकं समुदाहृतम् ॥ ४० ॥ तस्मिन्क्षते महीपाल नागः प्राणैर्वियुज्यते ॥ पारुष्यपश्चिमे भागे कर्मस्योपरि पार्थिव ॥ ४१ ॥ पलिपादे महीपाल मर्म प्राणहरं स्मृतम् ।। पुरोनस्वस्य यत्पार्ध नखश्रोस्रोतस्य मध्यतः ॥ ४२ ॥ मर्म तस्मिन्क्षते नागं गात्रशोफो विनाशयेत् ।। • स्तनयोश्रूचुकः पाचें ममैकं पृथिवीपते ॥ ४३ ॥ सद्यः प्राणहरं तु स्याद्वारणस्य हि पार्थिव ॥ अथ वङ्क्षणपार्थे तु ममैकं समुदाहृतम् ॥ ४४ ॥ रक्तश्रो(स्रो)तोवहं नाम तदपि प्राणनाशनम् ।। वद्भक्षणस्याप्यधोभागे वारणस्य महीपते ॥ ४५ ॥ मर्म तस्मिन्क्षते नागः सद्यः शोफेन नश्यति । अष्ठीव्यसंधिमाश्रित्य मर्मेकं तु महीपते ॥ ४६ ॥ क्षते तत्र भृशं नागस्त्वपरे परिकर्षति । मण्डूक्या वाऽपि नागस्य ममैकं समुदाहृतम् ॥ ४७ ॥ क्षते तस्मिन्महीपाल स्व(ष)ण्ढः संजायते गजः । तथा सकुटिकायां तु ममैकं समुदाहृतम् ॥ ४८ ॥ सद्यः प्राणहरं त्वतद्वारणस्य विनिर्दिशेत् । अपरातलयोर्मध्ये ममैकं समुदाहृतम् ॥ ४९ ॥ सद्य:भाणहरं तं तु वारणस्य विनिर्दिशेत् ।। इत्येष कीर्तितः सम्यक्मविभागस्तु मर्मणाम् ॥ ५० ॥ यथावदनुपूर्वेण वारणानां हितैषिणा । तत्र भागेषु सर्वेषु मर्माणि परिरक्षपेत् ॥ ५१ ॥ मर्मभागेषु नागानां शस्रकर्म न कारयेत् ॥ सृपकं भिषजा ज्ञात्वा शस्रकर्म नियोजयेत् ॥ ५२ ॥ शत्रकर्माणि नागस्य शिरात्रायूश्च वर्जयेत् ॥ सर्वसंधिषु मर्माणि विज्ञाप कुशलो भिषक् ॥ ५३ ॥ मर्मभागेषु नागस्य तिर्यक्शत्रं न पातयेत् ॥ अनुलोमं तु यत्रैवं यथेष्टं सिद्धिरिष्पते ॥ ५४ ॥ १ ख. °लायुश्च ।