पृष्ठम्:हस्त्यायुर्वेदः.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्कर्णकन मतङ्गः क्षते तस्मिन्न जीवति ।। अधस्तात्पेचकस्याथ गुदभागस्य चोपरि ॥ २६ ॥ मर्म तस्मिन्क्षते नागो मूत्रसङ्गेन नश्यति । अथ निष्कोशमध्ये वै ममैकं मनुजाधिप ।२७ ॥ सद्यः प्राणहरं तत्तु वारणस्य (विनिर्दिशेत् ।। पर्शकास्तु समाश्रित्य निष्कोसस्य तु पार्वतः ॥ २८ ॥ मर्म प्राणहरं ततु वारणस्य) नराधिप ॥ पक्षतोऽप्यथ नागस्य ममैकं समुदाहृतम् ॥ २९ ॥ • क्षते तस्मिन्महीपाल वातानाहः प्रधावति । वारणस्य महीपालं कक्षाभागं समाश्रितम् ॥ ३० ॥ मर्म तस्मिन्क्षिते नागं पाकलस्तु विनाशयेत् ।। तनुभागस्य चाधस्तान्मर्म रन्धसमाश्रितम् ॥ ३१ ॥ तस्मिन्क्षिते वारणस्य व्याधिरुत्कर्णको भवेत् । कक्षाभागस्य मध्ये तु क्षयभागं समाश्रितम् ॥ ३२ ॥ मर्म प्राणहरं विद्धि वारणस्य भहीपते ॥ उपरिष्टातु कायस्य मर्मभागाः प्रकीर्तिताः ॥ ३३ ॥ गात्रापरे प्रवक्ष्यामि ममणि प्रविभागशः ॥ आसनस्य तु पार्थे तु ममैकं समुदाहृतम् ॥ ३४ ॥ तंतस्तस्मिन्क्षते नागं गात्रशोफो विनाशयेत् ।। अपस्कारस्य वाधस्ताद्वैशास्वस्य तु मध्यतः ॥ ३५ ॥ तत्र क्षतस्तु मातङ्गः स्तब्धगात्रः सदा भवेत् । गात्रस्य पूर्वभागे तुं जवभागस्य पार्श्वतः ॥ ३६ ॥ तत्र भर्म महीपाल सद्यः प्राणहरं स्मृतम् ॥ विष्कयोः पश्चिमे भागे वालयस्तत्र दृश्यते ॥ ३७ ॥ मर्म तस्मिन्क्षते नागः सद्यः प्राणान्विमोचयेत् । विशेषयोः पश्चिमेन व(प)लिहस्तस्य मध्यतः ॥ ३८ ॥ मर्म तस्मिन्क्षते नागः सद्यः प्राणैर्वियुज्यते । नेत्रमण्डलभागे तु मर्मकं पृथिवीपते ॥ ३९ ॥ धनुश्चिान्तरगतो नास्ति खपुस्तके । पाठः १ क. ख. मागतः । २ क. ०ष्कोसम । ३ क.वातानाहं । ५०९ ४ क.