पृष्ठम्:हस्त्यायुर्वेदः.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यनिविरचितो– [ ३शल्यस्थाने इति वातादिभिर्तुष्टः षट्टिधः कीर्तितो ब्रमः ॥ ऋणदोषान्प्रवक्ष्यामि यातृदोषकृताभृप ॥ ८२ ॥ यदा युनक्ति मातङ्गं याता कर्मण्यमात्रया । तस्य पातुरविज्ञानाद्वायामाद्दीर्यते व्रणः ॥ ८३ ॥ ऋणदोषास्तु वक्ष्यन्ते हस्तिवैद्यापराधजाः ।। अंयथावत्प्रयुतैश्च शस्रामिक्षारभैषजैः ॥ ८४ ॥ अज्ञानाद्वा प्रमादाद्वा व्रणे वैद्योऽपराध्यति । कामक्रोधभयाद्वाऽपि वारणोऽप्यपराध्यति ॥ ८५ ॥ ततः प्रकुरुते दोषान्त्रणेष्वात्मापराधजान् ॥ अथ दोषान्प्रवक्ष्यामि यातृदोषकृतांस्तथा ॥ ८६ ॥ यदा तुहिम(न)या नौगं पाता कर्मण्यमात्रया । यस्य यातुरविज्ञानाद्यायामाद्दीर्यते व्रणम् ॥ ८७ ॥ दोषवैद्यमहामात्रैरातुरेण च वर्जितः । यदृच्छयोपपत्रैस्तु दोपैर्यादृच्छिको व्रणः ॥ ८८ ॥ वृत्ता च चतुरस्रा च द्विविधा योनिराकृतेः । ऋणानां शास्रनिर्दिष्टा विज्ञेया स्यात्समासतः ॥ ८९ ।। सा च गात्रपदेशानां शास्राणां च विभक्तितः ॥ प्रहर्तृणां च वैशेष्याद्विशेषाउँभते बहून् ॥ ९० ॥ यथा रोगा न जायन्ते वनेषु वनचारिणाम् । । वनानुचरिताध्याये तदस्माभिः प्रकीर्तितम् ॥ ९१ ॥ निसर्गात्सात्म्यतः पीते जले पांशृप्रमांथतः ॥ विना चैः प्ररोहन्ति द्विरदानां वने व्रणाः ॥ ९२ ॥ श्रुषिरं मृदु चैतेषां मांसं मेदःसमन्वितम् ॥ तेनैषामीषदुन्मृष्टा व्रणाः सर्पन्ति सैर्वतः ॥ ९३ ॥ कोशवन्तश्च जायन्ते प्रायसो(शो)दन्तिनां व्रणाः ।। स पुनर्वेक्ष्यते हेतुर्दन्तनाडीचिकित्सिते ॥ ९४ ॥ त्रिविधस्तु व्रणो ज्ञेयो विकृतोद्भमदाहजः ॥ ९५ ॥ १ क. अथ याव० । २ क. नागमापातात्कर्ममा० । ३ ख. व्रणः । ४ क. ०गत्सितः पीतज° । ५ क. ०मादतः । ६ क. सर्वशः