पृष्ठम्:हस्त्यायुर्वेदः.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविराषितो– . [ ६ शश्वस्थाने दन्तान्तरस्य मध्ये तु प्रतिमानस्य वोपरि ॥ फेत्करं नाम तन्मर्म सद्यः प्राणहरं नृप ॥ १२ ॥ वातकुम्भस्य चाधस्तात्मतिमानस्य चोपरि ॥ तालुश्रो(स्रोतोवहं मर्म भिन्ने तस्मिन्न जीवति ॥ १३ ॥ अथोपरिष्टाग्रीवायाः कैर्मसंधिसमाश्रिताम् ॥ मर्म वायसतुण्डं तु विद्धस्तस्मिन्न जीवति ॥ १४ ॥ ग्रीवासंधिमनुप्राप्तमधो मस्तकपिण्डयोः । मध्ये पणवकं नाम मर्म माणहरं स्मृतम् ॥ १५ ॥ वारणस्यं गुहाभागे मर्म संधिसमाश्रितम् ॥ धमन्याध्मापन्न नाम सद्यः प्राणहरं नृप ॥ १६ ॥ गुहाभागेऽपरमपि पतस्थानं समाश्रितम् ॥ मर्म तस्मिन्क्षते नागः पाकलेन विपद्यते ॥ १७ ॥ गुहाभागेऽपि मध्ये तु केर्मसंधिसमाश्रितम् ॥ मर्म तस्मिन्क्षते नागः स्तब्धग्रीवो भवेबृप ॥ १८ ॥ शङ्खसंधिगतं यत्तदुपवाहिसमाश्रितम् ॥ मर्म तस्मिन्क्षते नागः सद्यः प्राणैर्वियुज्यते ॥ १९ ॥ मन्ययोर्मध्यतं चैकं गलसंधिसमाश्रितम् ॥ मर्म तन्निर्गलं नाम सद्यः प्राणैर्वियोजपेत् ॥ २० ॥ उपरिष्टादुरोमन्या गलभागस्य चाप्यधः ॥ हिङ्काममेति तद्विद्यात्सद्यः भाणहरं हि तत् ॥ २१ ॥ संधिमध्ये तु नागस्य उरोमणिसमाश्रितम् । तस्मिन्क्षिते द्विपं क्षियं वातस्कन्दो विनाशयेत् ॥ २२ ॥ उरोमणेर्मध्यतस्तु मणिर्नाम प्रतिष्ठितम् ॥ चतुरस्र च मध्ये तु यत्राऽऽवर्तः प्रद्दश्यते ॥ आवर्त नाम तन्मर्म सद्यः प्राणहरं स्मृतम् ॥ २४ ॥ अथोपरिष्टात्कायस्य प्रवक्ष्यामि महीपते ।। आसनस्य तु पाचें तु वंशनागस्य संश्रितम् ॥ २५ ॥

  • ‘मण्या’ इति भवेत् ।

१ क. फत्करं । २ क. कर्णसं० । ३ क. १स्य गृहा० । ४ क.

  • क. कर्णसं० । ६ क. *तवि ग० । ७ ख. *द्वारणं । ।