पृष्ठम्:हस्त्यायुर्वेदः.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ मद्धिायाः] स्यायुर्वेदः। इत्पब्रवीत्पालकाप्यो राज्ञाऽङ्गेन निवेदितः ॥ ४४ ॥ इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने तृतीये शल्यस्थान एरण्डको नामैकविंशोऽध्यायः ॥ २१ ॥ अथ द्वाविंशोऽध्यायः । अङ्गो हि राजा चम्पायां देवराजसमद्युतिः ।। पालकाप्यं महाराजः पप्रच्छ विजितेन्द्रियः ॥ १ ॥ मर्माणि कति नागानां शरीरेषु महामुने ।। तत्र ममर्माणि सर्वाणि भागागोचरतत्त्वतः ।। २ ।।

  • ते प्रसादाद्रगवते (?) तदिच्छामि च वेदितुम् ।।

पालकाप्यस्ततस्तस्य श्रुत्वा वचनमब्रवीत् ॥ ३ ॥ शरीरस्य च वक्ष्यामि नागस्याहं महीपते ।। तद्यथा चानुपूर्वेण प्रदेशान्मर्मसंस्थितान् ।। ४ ।। तत्र कुम्भस्य मध्ये तु मर्मकं मनुजाधिप ।। नाम्रा प्रवेपणं नाम सद्यः:प्राणहरं हितम् ।। ५ ।। श्रवणश्रो(स्रो)तसी स्यातां मर्मणी द्वे महीपते । सद्यः:प्राणहरे विद्धि वारणस्य न संशयः ॥ ६ ॥ तथा निर्याणमध्येऽपि वालो यत्र प्रदृश्यते ॥ म तद्वारणस्यापि सद्यः प्राणहरं हितम् ॥ ७ ॥ नेत्रयोरुपरिष्टात्तु इषीकीगुच्छयामृतम् ॥ मर्म तस्मिन्क्षते नागः पञ्चत्वमुपगच्छति ॥ ८ ॥ अवग्रहस्य मध्ये तु कपालं यत्समाश्रितम् ॥ सीवनीमर्म तं विद्यात्क्षते तस्मिन्न जीवति ॥ ९ ॥ मस्तकाकृति(?) यौ पिण्डौ तयोर्मध्ये तु मैस्तकौ । भिन्नो मस्तकमध्ये तु मागः प्राणैर्वियुज्यते ॥ १० ॥ पिथूषस्योपरिष्टातु कर्णसंधिसमाश्रितम् ॥ कर्णश्रो(स्र)तोनुगं मर्म क्षते चास्मिन्विपद्यते ॥ ११ ॥

  • ः 'तव प्रसादाद्भगवंस्तत्' इति तूचितम् ॥

१ ख. गति । २ क. ०कालुगु० । ३ क. मस्तुकौ । ४ क. ख. भिन्नौ ।