पृष्ठम्:हस्त्यायुर्वेदः.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

है . पालकाप्यमुनिविरचितो [ १.शाध्यस्थाने श्वेतसर्षपमादाय पिप्पलीभरिचानि च ॥ एतदुडेन संयुक्त छायायां परिशोषयेत् ॥ ३० ॥ एतदअनपामाभ्यां धूपने च मशस्यते । कुठं ध्यामकसंयुतं वार्ताकीबीजमेव च ॥ ३१ ॥ देवदारु च-सर्पिश्च पुष्पाणि हासनस्य च । त्रिफलाऽतिविषा कुठं तथा पाषाणभेदकः ॥ ३२ ॥ गवां मूत्रेण पिष्टं तु क्षौद्रेण सह योजितम् ॥ एतत्पानाञ्जने देयं गजानां हितमिच्छता ।। ३३ ।। पुराण **************राजसिद्धार्थका वचा ॥ हिङ्गजीरकथुण्ठी च सर्पिश्चापि गुडं तथा ॥ ३४ ॥ दष्ट तु कुपिते पानं रसाञ्जनमनुत्तमम् ॥ पिप्पली पिप्पलीग्रन्थिर्मधुसर्पिःसमन्वितम् ॥ ३५ ॥ एरण्डदष्टं कुपिते पानं दद्यात्तथाऽअञ्जनम् । आद्रकं सगुडं कुष्ठं घृतेन सह योजितम् ॥ ३६ ॥ पिण्डं दद्याद्रजानां तु दष्टानामुपशान्तये ।। कुष्ठं च तगरथैव आद्रकं गुडमेव च ॥ ३७ ॥ श्वदष्टस्य सु नागस्य पिण्डं दद्याद्विचक्षणः । हरिद्रा हरितालं च मञ्जिष्टा समनःशिला ॥ ३८ ॥ चेतसिद्धार्थकाः कुष्ठं कपित्थं तगरं तथा । गोरोचना सुना पित्तं समभागानि योजयेत् ॥ ३९ ॥ तदभ्यञ्जनपानं च आलेपं चास्य दापयेत् । । क्षीरमिक्षुरसं चास्मै अन्नपानं प्रदापयेत् ॥ ४० ॥ शाल्योदनं ससर्पिष्कं भोजयेन्मुद्रसंयुतम् । मृढुं च यक्सं दद्यात्सर्पिश्चास्य प्रवर्तते ॥ ४१ ॥ क्षान्तिश्चास्य क्रियायोगे सिद्धिः कर्माभिनीतवत् ।। अन्तरिक्षगताः श्धानः कामगां दिव्यचारिणः ॥ ४२ ॥ तेषां मूत्रपुरीषाणि लालाश्चापि विषं भवेत् । दष्टवद्भजते रूपं सीदत्यपि च ६ष्टवत् ॥ ४३ ॥ १ क. “गादित्यचा° । २ क. *त् । दृष्ट” । ३ क.'दृष्टवत् ।