पृष्ठम्:हस्त्यायुर्वेदः.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवं द्विविधमाख्यातं सविषं निर्विषं शृणु । विस्फोटितं विस्लिखितं प्रथितं स्निग्धशोणितम् ॥ १५ ॥ व्यवकृष्टं विजानीयान्निर्विषं तद्भवेनृप ।। ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव तु जातितः ॥ १६ ॥ श्छा रक्ता धूम्रवर्णाः कृषणाश्चेति यथाक्रमम् ।। तेषां गन्धाः स्मृता भौमत्स्यचन्दनसर्पिषाम् ॥ १७ ॥ शुङ्कास्तु श्लैष्मिका ज्ञेया रक्ता वै पित्तसंभवाः । धूम्रा वाससमुत्थास्तु संकीण मिश्रलक्षणाः ॥ १८ ॥ तेषां वर्णविभागेन प्रतिकुर्याचिकित्सितम् ॥ कालेन पावता दष्टो हस्तिनः प्रति कुप्यति ॥ १९ ॥ तावतैव तु कालेन भूयो भूयः प्रकुप्यति । तत्रेमे हेतवः प्रोक्ता श्वदष्टस्य प्रकोपनैः ॥ २० ॥ मेघविद्युन्निपातेन अशनेः पतनेन वा ।। अजीर्णाध्यशनाद्वाऽपि तथैवाप्यतिभोजनात् ॥ २१ ॥ जलमध्यगतो वाऽपि पश्चाऽऽत्मानं प्रपश्यति ॥ सप्तमे दिवसे मासे पक्षे संवत्सरेऽपि वा ॥ २२ ॥ परिकुप्यति यद्दष्टं तस्मात्कुर्याचिकित्सितम् ॥ विषं तत्रिविधं ज्ञेयं त्रिवेगं त्रिःप्रतिक्रियम् ॥ २३ ॥ प्रथमे विषवेग तु नमत्यपि च कम्पते । नदत्यूध्र्वमुखोऽत्यर्थं द्वितीये नृम्भते मुहुः ॥ २४ ॥ तृतीये नृम्भतेऽत्यर्थ वसन्नदति वाऽसकृत् । श्र(स्र)स्तलाङ्गलचरणः श्र(स्र)स्तकर्णशिरोधरः ॥ २५ ॥ मूर्छति क्रोधनोऽत्यर्थ म्रियते नात्र संशयः ॥ इति त्रयाणां वेगानां लक्षणं परिकीर्तितम् ।। २६ ।। एवंप्रकारस्य यथा दर्शनं नाभिजायते ॥ असाध्यं तं विजानीयात्रिवेगाक्षिप्तकश्च यः ॥ २७ ॥ याप्यो बधुसवर्णाभः शेषाः साध्याः क्रियां प्रति । धूपाञ्जनं च पानं च विविधाश्च क्रियाः स्मृताः ।। २८ ।। । कुडुमं तगरं कुष्ठं घेतपर्ववचा स्मृताः ॥ • एतदञ्जनपानेषु धूपनेषु च योजयेत् ॥ २९ ॥ ६४