पृष्ठम्:हस्त्यायुर्वेदः.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० सर्मप्रमाणाध्यायः] इत्यायुर्वेद । ५०३ वैकल्यात्कृच्छूजीवी भवति । अष्ठीव्योमर्म चतुरङ्गलमाणम्, तत्र गाढं विद्धोऽ पकर्षति । गुहाभागमध्ये कर्णाश्रितं मर्म चतुरङ्गलप्रमाणम्, तत्र गाढं विद्धः स्तब्धगात्रो भवति । प्रत्यंसमध्ये मर्म पञ्चाङ्गलप्रमाणम्, तत्र गाढं विद्धः स्तब्धकर्णो भवति । अन्तर्बहुमध्ये मर्म ' पञ्चाङ्गलप्रमाणम्, तत्र गाढं विद्धो हृद्रोगी भवति । ग्रीवामध्ये मर्म षडङ्गलप्रमाणम्, तैत्र गाढं विद्धस्य मन्या स्तम्भो भवति । बिलाङ्गमध्ये मर्म षडङ्गलप्रमाणम्, तत्र गाढं विद्धश्चक्षुर्विकल भवति । अपस्कारमध्ये मर्म षडङ्गलप्रमाणम्, तत्र गाढं विद्धः स्तब्धगात्रो भवति । करीपस्रावमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्ध आनाहेन पीठ्यते । चूचुकपोर्मध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्ध उरःसङ्गमवाप्रोति। करमध्ये मर्म षडङ्गुलमाणम्, तत्र गाढं विद्ध उत्कर्णकेन पीड्यते । प्रतीकास (श)मध्ये मर्म षडङ्गुलप्रमाणम् । तत्र गाढं विद्धः पाकलेन पीडयते। अंश(स)मध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धो गात्रभङ्गमवाप्रोति । क्षपभागे मर्म सप्ताङ्ग लप्रमाणम्, तत्र विद्धस्य गात्रस्य रुजा भवति । कलाभागमध्ये थर्म सप्ताङ्गुल प्रमाणम्, तत्र गाढं विद्धोऽतीसारमवाप्रोति । अन्तरांपरमध्ये मर्म सप्ताङ्गलप्र माणम्, तत्र गाढं विद्धो मूत्रसङ्गमवाप्रोति । उदरमध्ये मर्म सप्ताङ्गलप्रमाणम्, तत्र गाढं विद्धो मेटूशोषमवाप्रोति । पृष्ठमध्ये मर्म विंशैत्यङ्गलप्रमाणम्, तत्र गाढं विद्धोऽपरंरोगी भवति । इत्येतानि चतुस्त्रिशैन्मर्माणि वैगुण्यकराणि भवन्ति । तत्र वैगुण्यकराणां चतुर्दशानां मर्मणां लक्षणान्युक्तानि ॥ लाका एवं सप्त महाराज शतं च परिकीर्तितम् । वारणानां शरीरेषु मर्मणामिति निश्चितम् ॥ तस्मान्मर्माणि संरक्षेद्वारणानां भिषग्वरः ।

                                      • ततः कुर्यात्क्रिपापथम् ॥

पो मर्माणि न जानाति वारणानां विभागशः । न स कापक्रिया(?)नागे विषपान्ते तमुत्सृजेत् ॥ इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने तृतीये शल्यस्थाने मर्मप्रमाणो नाम विंशोऽध्यायः ॥ २० ॥ तत्र १ क. *रामध्येऽप० । २ क. १शत्पञ्चाङ्गलं प्र° । १ क. "शतिमर्मा० ।